देव स्वामिनः ********************* वेताल विक्रमादित्यम् अब्रवीत् - भूपते ! मार्गे गच्छन् भवान् एकां कथां श्रुणोतु । कलिङ्गदेशे यज्ञसोमनामा एकः कुलीनो द्विजः वसति स्म । तस्य सोमदत्ता नाम भार्या आसीत् । तयोः देवस्वामी नाम एकः सुतोऽभवत् । बाल्यकाले एव स स्वगुणैः प्रसिद्धिमलभत । परं युवावस्थायामेव स पञ्चत्वं गतः । शोकाकुलौ भूत्वा तस्य माता पिता च उच्चैः अक्रन्दताम् । सर्वे बान्धवाः अग्निसंस्काराय देवस्वामिनः शवं श्मशानमनयन् । तत्र वसन् एका शिव नामा वृद्धः तं शोभनाकृतिं मृतं ब्राह्मणपुत्रम् अपश्यत् । तं दृष्ट्वा सः वृद्धः महान्तं क्लेशम् अन्वभवत् अचिन्तयच्च -" मम कलेवरं जीर्णं वर्तते । यदि एतत् कलेवरं परित्यज्य अहम् एतस्य ब्राह्मणयुवकस्य शरीरं प्रविशेयं तहि अहं अभीष्टसिद्धिं प्राप्तुं समर्थो भवेयम् ।" एतद् विचार्य प्रथमं स वृद्धः क्रन्दनमकरोत् तदन्तरं स अनृत्यत् । यथा भुजङ्गः निर्मोकं त्यजति तथैव स वृद्धः स्वकलेवरम् अत्यजत् द्विजपुत्रस्य च शरीरं प्राविशत् । तदा स युवा ब्राह्मणपुत्रः सजीवो भूत्वा उदतिष्ठत् । स्वपुत्रं जीवितं दृष्ट्वा पिता च सर्वे बान्धवाः प्रसीदन् । देवस्वामी स्वपितरं बन्धून् चाकथयत् - " अहं संसारं त्यक्त्वा संन्यासम् अङ्गीकर्तुमिच्छामि।" एतत् श्रुत्वा तस्य पिता सर्वे च बान्धवाः शोकाकुलाः अभवन् । परं तैः प्रार्थ्यमानोऽपि देवस्वामी एतां कथां श्रावयित्वा वेतालः विक्रमादित्यम् अपृच्छत् -" राजन् । वदतु भवान् किमर्थं सः वृद्धः अक्रन्दत् किमर्थं च अनृत्यत्? विक्रमादित्यः उदतरत् -" श्रूयताम् अत्र कारणम् । इदं शरीरंम् अत्यन्तलालितं चिरसंगतं च वर्तते । बाल्ये इदं शरीरं त्यजामीति चिन्तयित्वा स अक्रन्दत् । परं ब्राह्मणपुत्रस्य नूतनं शरीरं प्रविश्य अहं सिद्धिं लब्ध्वा कृतार्थो भविष्यामि इति विचिन्त्य स अनृत्यत् ।" विक्रमादित्यस्येदम् उत्तरं श्रुत्वा वेतालः पुनः शिंशिपातरुं गत्वा तत्र ललम्बे ।