१०-देशरत्नं डा. राजेन्द्रप्रसादः ******************************************************************** देशरत्नं डा. राजेन्द्रप्रसादः स्वतन्त्रभारतस्य प्रथमः राष्ट्रपतिः आसीत् । तस्य कार्यकालः प्रायः दशवर्षाण्यासीत् । तस्मिन् समये देशस्य उत्तमा प्रगतिरासीत् । राजेन्द्रप्रसादस्य जन्म १८८४ ईसवीये दिसम्बर-मासस्य तृतीयदिनाङ्के बिहारस्य सारणमण्डले जिरादेई ग्रामेऽभवत् । शिक्षायाः प्रारम्भकालतः एव एषोऽतीव मेधावी आसीत् । १९०० ईसवीये इण्ट्रेन्स परीक्षायाम् एषः सम्पूर्णे कोलकाता विश्वविद्यालये प्रथमं स्थानमलभत । सः एम. ए. एम. एल. परीक्षयोरपि सर्वप्रथमं स्थानं प्राप्तवान् । सर्वे तस्य योग्यतया विद्वत्तया च मुग्धाः आसन् । शिक्षां समाप्य स्ः आदौ कोलकातायां ततः पटनानगरे उच्चन्यायालये अधिवक्ता अभवत् । अधिवक्तृषु तस्य प्रतिष्ठा उत्तमा धनार्जनम् अत्यधिकं चास्ताम् । परन्तु महापुरूषाणां जन्म आत्मसुखाय न भवति । महापुरूषातु सर्वेषां सुखाय हिताय च जीवन्ति । १९१७ ईसवीये बिहारस्य चम्पारणे गाधिमहोदयः आङ्ग्लशासनं विरूध्य आन्दोलनं प्रारब्धवान् । तदा राजेन्द्रमहोदयः तस्य शिष्यः अभवत् । तेन अधिवक्तुः पदं धनार्जनं च परित्यक्तम् , देशसेवायाः व्रतं च स्वीकृतम् । १९३४ ईसवीये यदा बिहारे भीषणः भूकम्पः आसीत् तदा सः महतीं जनसेवामकरोत् । भारतस्य स्वतन्त्रतासङ्ग्रामे गान्धिमहोदस्य अनुयायिषु राजेन्द्रमहोदयः विशिष्टः आसीत् । सः निष्ठावान्, उत्साही परिश्रमी च स्वतन्त्रतासङ्ग्रामी आसीत् । १९२१ ईसवीयस्य असहयोगान्दोलने १९४२ ईसवीयस्य भारतं मुञ्च-आन्दोलने अन्येषु स्वतन्त्रतान्दोलनेषु च सः बहुवारं कारावासमपि असहत् । १९४७ ईसवीये यदा देशः स्वतन्त्रोऽभवत् तदा राजेन्द्रमहोदयः प्रथमः खाद्यमन्त्री अभवत् । ततः सः देशस्य प्रथमराष्ट्रपतिपदं चालङ्कृतवान् । २८ फरवरी १९६३ दिनाङ्के तस्य देहावसानभवत् । राजेन्द्रप्रसादः स्वभावेन सरलः मधुरभाषी चासीत् । सः भारतीयसंस्कृतेः प्रशंसकः संवर्धकश्च आसीत् । सरलं जीवनम्, उच्चः विचारः इत्येतस्य सः प्रत्यक्षम् उदाहरणमासीत् । तेन आजीवनं भारतीयं वस्त्रं धारितम् । सत्यं सरलता च तस्य जीवनमन्त्रौ आस्ताम् । एतस्य महापुरूषस्य महती देशसेवा उत्तमं च चरित्रं सर्वैरस्माभिः अनुकरणीयमेवास्ति ।