सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टोबर् - २००५ प्रकृतिं यान्ति भूतानि.. हसबनीस सुरेशहरी बाल मोदिनी एकदा बिरबलः अकबरश्र्च संलपन्तौ आस्ताम् । तदा मार्जारविषये वदन् बीरबलः अवदत् - "महाराज, अस्मिन् जगति मार्जारः एकः प्राणिविशेषः यं कोऽपि शिक्षियितुं न प्रभवति । क्रिडाचक्रिणः व्याघ्रं, सिंहं,हस्तिनम्,उष्ट्र, भल्लूकं ,शकुं चापि शिक्षयित्वा तैः मनोरञ्जन कार्यक्रम कारयन्ति । किन्तु क्रिडाचक्रे मार्जारः क्रिडन् न कदापि दृश्यते शक्यः । किन्तु न तथा मार्जारः " इति । तदा अकबर् महाराजः उवाच - "सत्यं तव वचनम् । किन्तु नास्ति अशक्यं किमपि । प्रयत्नात् सर्वं साधयितुं शक्यम् इति मे भाति" इति । तदनन्तरं तौः उभौ अपि कार्यमग्नौ स्वालयं गतौ । अकबरः मनसि निश्र्चयं कृतवान् यत् केनापि उपायेन अहं माअर्जारं शिक्षयेयं , बीरबलं च पराजयेय ' इति । अन्येद्युः महाराजेन षड् श्र्वेत मार्जारं समानीताः । सेवकस्य साहाय्येन गुप्तरुपेण मार्जार प्रशिक्ष्ण कार्यक्रमः तेन समारब्धः । सेवकः तान् आनयति स्म । अर्धवर्तुलाकारम् उपवेशयितुं प्रयतते स्म । तालिकावादनं कृत्वा प्रियभक्ष्यं दुग्धं च दर्शयित्वा स तान् समाह्वयति स्म । यदा तालिकावादनं भवति तदा भक्ष्यं प्राप्यते इति अभ्यासेन मार्जाराः अपि अवगतवन्तः । ततः सेवकः उपविष्टानां मार्जाराणां मस्तकेषु ज्वालितान् दिपान् स्थापयति स्म । अकबरः तद्दिपप्रकाशे भोजनं करोति स्म । प्रायः षण्मासपर्यन्तम् एषः उपक्रमः अनुतिष्ठितः तेन । विना प्रमाद मार्जाराः यथाशिक्षितं समाचरन्ति इति अवलोक्य कदाचित् अकबरेण बीरबलः स्वीयभोजनसमये समाहूतः । आसनस्थं बीरबलम् अकबरः अवदत् - "बीरबल पश्य मे मार्जार क्रिडारङ्गम्" इति । मार्जाराः यथानुशासितं तथैव अन्वतिष्ठन् । व्यवस्थितान् स्थिरोपविष्ठान् मार्जारान् दृष्ट्वा बीरबलः अपि विस्मितः । सर्वं मार्जारकार्यं प्रशंस्य राजानं संस्तुत्य बीरबलः यदा गृहं प्रतिनिवर्तितुम् उद्युक्तः तदा अकबरेण उक्तं - "किं अशक्या मार्जार शिक्षा ? किम् प्रतिदिनं एवमेव अहं मार्जारमस्तक स्थापित दीपप्रकाशे भोजनं करोमि । पुनः कदापि आगच्छ " इति । बीरबलः परेद्यु ः एव रात्रौ राज्ञः अकबरस्य भोजनसमये अगच्छत् । राज्ञः अकबरस्य आज्ञानुसारं सेवकेन प्रज्वलिताः दीपाः तन्मस्तकेषु स्थापिताः । यदा राज्ञाभोजनम् आरब्धं तदा बीरबलेन एकः मूषकः कोषात् निष्कास्य मुक्तः । मार्जारैः पलायमानः मूषकः दृष्टः झटिति एव उत्प्लुत्य तैः सः आक्रान्तः, भक्षितः च । तेषां मस्तके स्थापिताः दीपाः परिभ्रष्टाः । एतस्मात् अकबरः संक्रुध्दः । तदा बीरबलः अकबरं सान्त्वयन् उवाच - "मूषकप्रियाः एते मार्जाराः । यावत् मूषकः न दृष्टः तावदेव एतेषां स्थिरता । प्रकृतिं यान्ति भुतानि निग्रहः किं करिष्यति इत्येतत् सत्यं गीतावचनम् " इति ।