सर्वदमनो भरतः (ख) ********************************* प्रथमा-(विलोक्य । सोद्वेगम् ) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । राजा- अलमावेगेन । ननु इदम् अस्य सिंहशावकविमर्दात् परिभ्रष्टम् ।(इत्यादातुमिच्छति) उभे- मा खलु एतद् अवलम्व्य- कथम् ! गृहीतम् अनेन । (इति विस्मयात् परस्परम् अवलोकयतः) राजा - किमर्थं प्रतिषिद्धाः स्मः? प्रथमा- श्रुणोतु महाराज ! एषा अपराजिता नाम औषधिः अस्य जातकर्मसमये भगवता मारीचेन दत्ता । एता किल मातापितरौ आत्मानं च वर्जयित्वा अपरो भूमिपतितां न गृह्णाति ? राजा - अथ गृह्णाति ? प्रथमा- ततस्तं सर्पो भूत्वा दशति । राजा- भवतीभ्यां कदाचिद अस्याः प्रत्यक्षीकृता विक्रिया ? उभे - अनेकशः । राजा - (सहर्षम् ।आत्मगतम्) कथमिव सम्पूर्णमिव मे मनोरथं नाभिनन्दामि ? (इति बालं परिष्वजते) द्वितीया - सुव्रते । एहि इमं वृत्तान्तं नियमव्यापृतायै निवेदयावः । (इति निष्क्रान्ते) बालः -मुञ्च माम् ! यावन्मातुः सकाशं गमिष्यामि । राजा- पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि । बालः - मम खलु तातो दुष्यन्तः । न त्वम् । राजा-(सस्मितम्) एष विवाद एव प्रत्याययति। (ततः प्रविशति एकवेणीधरा शकुन्तला) राजा-(शकुन्तलां विलोक्य) अये ! सेयम् अत्र भवती शकुन्तला । शकुन्तला-(पश्चात्तापविवर्णं राजानं दृष्ट्वा) न खलु आर्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । बालः- (मातरमुपेत्य) मातः । एष कोऽपि पुरुषः मां पुत्र इति आलिङ्गति। शकुन्तला-(आत्मगतम्) आर्यपुत्र खल्वेषः । (प्रकाशम्) जयतु जयतु आर्यपुत्रः ।