भारतवर्षस्य उत्तरदिशायां हिमालयो नाम पर्वतोऽस्ति । अस्य पर्वतस्य शिखराणि अत्युन्न्तानि सन्ति । एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति । अत एव अस्य पर्वतस्य अभिधानं हिमस्य आलयः हिमालय इति प्रसिद्धोऽस्ति । हिमालयात् गंगा-यमुना-शतद्रु-विपाशा-इरावती-वितस्ता-प्रभृतयः अनेकाः नद्यः प्रादुर्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति । अत एव अस्मिन् देशे प्रभूतानि विविधानि अन्नानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवः विविधानि च रत्नानि उपलभ्यन्ते । ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीयस्थलेषु गच्छन्ति सुखं च अनुभवन्ति । अस्मिन् एव पर्वते मानसरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयानि तीर्थस्थानानि अनेके च देवालयः सन्ति । एतस्मिन् पर्वते स्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति । अत्र देवीनां मन्दिराणि अपि सन्ति । एतस्मात् कारणात् अयं पर्वतो देवभूमिरापि कथ्यते । हिमेन आच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यश्च अस्मान् रक्षन्ति । अयं पर्वतः सुरक्षा-दृष्टया अतीव महत्वपूर्णोऽस्ति । अनेनैव कारणेन अस्माकं सुरक्षा-सैनिकाः अस्य रक्षायै तत्पराः भवन्ति ।