बालकः ध्रुवः पुरा उत्तानपादो नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ आस्ताम् -सुनीतिः सुरुचिश्च । ज्येष्ठा सुनीतिः कनिष्ठा सुरुचिः च । कनिष्ठा सुरुचिः राज्ञः अधिकं प्रिया आसीत् । सुरुचेः पुत्रः उत्तमः पितुः प्रियतरः आसीत् । किन्तु सुनीतेः पुत्रः ध्रुवः तस्य उत्तानपादस्य न तथा स्नेहभाजनम् । एकदा राजा उत्तानपदः सिंहासने उपविष्टः आसीत् । तस्य अङ्के उत्तमः आसीनः आसीत् । तमवलोक्य ध्रुवोऽपि पितुः अङ्के आरोहितुम् ऐच्छत् । ततः सुरुचिः ईर्ष्यया दर्पेण च ध्रुवं तर्जयित्वा अवदत्- "वत्स ! व्र्था एव ते मनोरथः । सपत्न्याः गर्भजातः त्वं कथं मम पुत्रेण समं भवितुम् इच्छसि ? अस्य राजसिंहासनस्य योग्यः मम पुत्रः उत्तम एवास्ति ।" अनेन अपमानेन आहतः बालकः ध्रुवः मातुः समीपं गत्वा स्वदुःखं निवेदितवान् । ततः माता सुनीतिः अवदत् - "पुत्र ! दुःखं मा कुरु । भगवतः शरणं गच्छ । स एव स्वप्रसादात् तव मनोरथं पूरयिष्यति ।" मातुः आज्ञया ध्रुवः मधुनामकं महावनम् अगच्छत् । सप्तर्षीणां परामर्शात् तत्र सः महत्तपः कृतवान् । तपसा प्रसन्नः भगवान् विष्णुः तस्मै बालकाय दर्शनं दत्तवान् । भगवतः प्रसादेन ध्रुवः उत्तमोत्तमं पदम् अलभत । पितुः प्रसादं राजपदं च लब्ध्वान् । मरणदनन्तरं च सः आकाशस्य उत्तरदिशायां सप्तर्षिमण्डलस्य समीपे ध्रुवतारारूपेण स्थिरोऽभवत् । तस्य माता च अतिनिर्मला तारका भूत्वा नक्षत्रमण्डले चिरं निवत्स्यति । बालकोऽपि ध्रुवः ध्रुवस~ग्कल्पेन सर्वोच्चपदम् अलभत । सत्यं ध्रुवा इच्छाशक्तिः निष्फला न जायते । मनोरथस्य मार्गे निष्फलता नास्ति ।