सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टुबरः २००५ कथा अर्धाङ्गिनी "अहं तेन सह सम्भाषणं कर्तुम् इच्छामि" इति वध्वा माधुर्या उक्तं श्रुत्वा सर्वे आश्र्चर्य प्राप्तवन्तः । मम न कोऽपि प्रतिरोधः वर्तते "इति उक्तवान् वर्तते "। इति उक्तवान् वरः चन्द्रः । उभौ अपि अन्यस्मिन् प्रकोष्ठे उपविष्टवन्तौ चन्द्रः प्राप्तस्नातकपदवीकः । अग्रे अध्ययनं न कृतं तेन कस्याञ्चित् स्वायत्तसंस्थायां सः नियुक्तं सम्पादितवान् । तस्य पिता सामान्य ः उद्योगी । एकं गृहं कष्टेन निर्मितम् आसीत् तेन । किन्तु तदपि पुत्र्योः विवाहानन्तरम् अदृश्यम् अभवत् । पुत्र्योः विवाहावसरे वरशुल्कं दातुं पिता कियत् कष्टम् अनुभूतवान् इति प्रत्यक्षं दृष्टवान् अस्ति चन्द्रः । अतः एव वरशुल्कविषये चन्द्रस्य महान् अनादरः । तं पितरम् अपि उक्तवान् । "यथेष्टं करोतु । भवतः वरशुल्कधनेन किमपि करणीयम् इति मम कापि अपेक्क्षा नास्ति " इति उक्तवान् पिता । वह्वयः कन्याः दृष्टाः । 'वरः स्वयं शुल्कं मास्तु इति वदति ,तस्मिन् कापि न्यूनता स्यात्' इति केचन चिन्तितवानः । इतोऽपि उन्नतां नियुक्तिं दापयिष्यामः । पितरौ विहाय अस्माकं कन्यया सह आगच्छ्तु ' इति अन्ये केचन उक्तवन्तः । केचन एतं न इष्टवन्तः । काश्र्चन एषः न इष्टवान् । परन्तु इदानीं यः सम्बन्धप्र्स्तावः आगतः सः तु उभयपक्षाभ्याम् अपि अरोचत । कन्यावीक्षणसमारोपस्य अभिप्रायविनिमयः प्रचलति स्म । "अहं भवन्तं किञ्चित् वदामि । अन्यथा न चिन्तनीयम् । भवान् वरशुल्कं नीराकृतवान् । भवान् वरशुल्कं निराकृतवान् । किमर्थं ?" इति पृषवती वधूः माधुरी । तस्याः नीस्सङ्कोचवार्तालापं श्रुत्वा चन्द्रः आश्र्चर्यचकितः । " भवतां सम्पति ः कियदस्ति ? विस्तरेण वदतु" इति उक्तवती माधुरी । " वेगेन प्रयुक्तः शरः इअव आगतवतः प्रश्र्नस्य उतरं धैर्येण उक्तवान् सः - "विशिष्टा सम्पत् कापि नास्ति । अभिमानेन सानन्दं पित्रोः संरक्षणमेव महत् इति अहं भवयामि ।" "भाविनि काले कापि आर्थिकसमस्या भविष्यति चेत् ... " पृष्टवति माअधुरी । चन्द्रः मौनम् आश्रितवान् । "पश्यतु वरशुल्कस्वीकरणम् अपराधः एव न इति अहं न वदामि । परन्तु प्र्याप्तमात्रम् आर्थिकसामर्थ्यमपि भवतां नस्ति । ये वरशुल्कं दातुं समर्थाः तेभ्यः तस्य स्विकरणं न दोषाय । स्वस्य अपेक्षाणां पूरणायान्यत्र हस्तप्रसारणं न भवेत् खलु । तथापि एतावत् दातव्याम् इति अभियाचनं न करणीयं । मम पिता वरश्ल्करुओएण धनं दातुं समर्थः अस्ति । स्वीकृत्य सञ्चयं करोतु" इति उक्तवती । "निषेधः कर्तव्यः 'इति चिन्तनं करोति चन्द्रः गतान् अनुभवान् स्मरन्.... उभयोदेशयोः वित्तमन्त्रिणो सुदीर्घायाः चर्चायाः अनन्तरं पत्रे हस्ताक्षरं यथा क्रियते तथा एताभ्याम् अपि कथमपि एकाभिप्रायः समालम्बितः । तद्दिने रात्रौ शनयात् पूर्व -'मम निर्णय श्रुत्वा मित्राणि परिहासं कुर्वन्ति किम्?'इति चिन्तनं सकृत् प्राप्तं चन्द्रेण । तथापि 'हा॑... दानं ग्रहणं इत्यादयः सामान्याः विषयाः एव । अत्र किमस्ति 'इति मनसः सात्वनं कृत्वा सः निद्रां कृत्वान् । 'पर्याप्तमात्रेण जलं भवति चेदेव नौका विना क्लेशं याति । आदर्शान् गृहित्वा जीवनं , जानुभ्यां जले तरणम् इव क्लेशकरम् । कदाचित् तत् असाध्यम् अपि ' इति चिन्तयन्ति , वर्षेभ्यः विद्यमानं क्षणान्तरे परिवर्तितवन्तं चन्द्रमपि मनसि स्मरन्ति 'अयं निश्र्चयेन अस्ति उक्तग्राहि ' इति निश्र्चित्य ' सुखेन निद्रां कृतवती माधुरी । ववाहः सुसम्पन्नः । नवोढयोः प्रथमा रात्रिः । पुष्पाणां मिग्धमनोहरपरिमलैः आकृष्टः चन्द्रः माधुर्याः निरीक्षणे अस्ति ।माधुरी स्वोद्योगः , धनसञ्चयनं ,वाहनक्रयणम्, अप्त्यानि, तेषाम् अध्ययनम् देशस्य आर्थिकि स्थितिः इत्यादीनां विषये दशाधिपृष्ठानि लिखित्वा चन्द्रस्य पुरतः पठितवती । समिपे उतपीठिकायां विद्यमानां क्षीरचषकं निस्सहायः सन् दृष्टवान् चन्द्रः । "अद्य ति निद्रा करोतु । महती निद्रा मां बाधते । स्वगृहनिर्माणविश्षये तन्निमितं वैत्तकोशात् कियत् ॠणं स्वीकरणीयं इति विष्ये ,अन्यान् विष्यान् अधिकृत्य च श्र्वः वार्तालापं करिष्यामः " इति जृम्भणं कुर्वती उक्तवती माधुरी । 'अबला, अर्धाङ्गिनि इत्यादीनां किम् अयम् एव अर्थः ?" इति चिन्तयन् अन्यत्र मुखं कृत्वा मदुरखण्ड्मेकं मुखे निक्षिप्य लिखितानि पत्राण्येव पुनः परिशीलयन्तीं माधुरीं स्मरन् , आस्तरणम् आकृष्य शयनं कृतवान् असहायः चन्द्रः ।