अपरीक्ष्य न कर्तव्यम् उज्जयिन्यां माधवो नाम ब्राह्मणः निवसति स्म । गृहे तस्य ब्राह्मणी तयोः नवजातः पुत्रश्च आस्ताम् । तत्र एकः नकुलशिशुरपि जातः । ब्राह्मणी मातृहीनं तं नकुलशिशुं बाल्यकालतः एव पुत्रवत् पालयति स्म ।एकदा ब्राह्मणी स्वपुत्रस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य जलमानेतुं नदीं अगच्छत् । तस्मिन्नेव अवसरे राज्ञः प्रासादात् किमपि दानं ग्रहीतुम् आमन्त्रणम् आगतम् । माधवश्च धनलोभात् तं नकुलं पुत्ररक्षार्थं व्यवस्थाप्य राजप्रासादं अगच्छत् । अस्मिन्नेव काले एकः कृष्णसर्पः बिलात् निर्गत्य बालकस्य समीपे अगच्छत् । तेन सर्पेण सह युद्धं कृत्वा नकुलः तं मारित्वान्तस्य खण्डशः कृत्वान् च । तदा तस्य नकुलस्य मुखं रक्तेन रञ्जितम् अभवत् । ततः स नकुलः मातरं ब्राह्मणीम् एतं समाचारं ज्ञापयितुं बहिः धावितवान् । मार्गे ब्राह्मणी आगता आसीत् । तथाविधं रक्तरञ्जितं नकुलं दृष्ट्वा सा अचिन्तयत्- "एषः नकुलः अवश्यमेव मम पुत्रं मारितवान् ।" अतः सा क्रोधेन जलपूर्णं घटं नकुलस्योपरि अक्षिपत् । तेन नकुलः तत्रैव पतितः मृतश्च । ततः सा ब्राह्मणी धावित्वा गृहम् आगत्य पश्यति यत् पुत्रः सुखेन स्वपिति तस्य समीपे सर्पः मृतः तिष्ठति च । इदानीं सा ज्ञातवती यत् नकुल एव सर्पं खण्डशः कृत्वा पुत्रं रक्षितवान् । अतः पुत्रतुल्यस्य नकुलस्य वधेन ब्राह्मणी भृशं सन्तप्ता अभवत् । कथितमस्ति- अपरीक्ष्य न कर्तव्यं, कर्तव्यं सुपरिक्षितम् । बालकः ध्रुवः पुरा उत्तानपादो नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ आस्ताम् -सुनीतिः सुरुचिश्च । ज्येष्ठा सुनीतिः कनिष्ठा सुरुचिः च । कनिष्ठा सुरुचिः राज्ञः अधिकं प्रिया आसीत् । सुरुचेः पुत्रः उत्तमः पितुः प्रियतरः आसीत् । किन्तु सुनीतेः पुत्रः ध्रुवः तस्य उत्तानपादस्य न तथा स्नेहभाजनम् । एकदा राजा उत्तानपदः सिंहासने उपविष्टः आसीत् । तस्य अङ्के उत्तमः आसीनः आसीत् । तमवलोक्य ध्रुवोऽपि पितुः अङ्के आरोहितुम् ऐच्छत् । ततः सुरुचिः ईर्ष्यया दर्पेण च ध्रुवं तर्जयित्वा अवदत्- "वत्स ! व्था एव ते मनोरथः । सपत्न्याः गर्भजातः त्वं कथं मम पुत्रेण समं भवितुम् इच्छसि ? अस्य राजसिंहासनस्य योग्यः मम पुत्रः उत्तम एवास्ति ।" अनेन अपमानेन आहतः बालकः ध्रुवः मातुः समीपं गत्वा स्वदुःखं निवेदितवान् । ततः माता सुनीतिः अवदत् - "पुत्र ! दुःखं मा कुरु । भगवतः शरणं गच्छ । स एव स्वप्रसादात् तव मनोरथं पूरयिष्यति ।" मातुः आज्ञया ध्रुवः मधुनामकं महावनम् अगच्छत् । सप्तर्षीणां परामर्शात् तत्र सः महत्तपः कृतवान् । तपसा प्रसन्नः भगवान् विष्णुः तस्मै बालकाय दर्शनं दत्तवान् । भगवतः प्रसादेन ध्रुवः उत्तमोत्तमं पदम् अलभत । पितुः प्रसादं राजपदं च लब्ध्वान् । मरणदनन्तरं च सः आकाशस्य उत्तरदिशायां सप्तर्षिमण्डलस्य समीपे ध्रुवतारारूपेण स्थिरोऽभवत् । तस्य माता च अतिनिर्मला तारका भूत्वा नक्षत्रमण्डले चिरं निवत्स्यति । बालकोऽपि ध्रुवः ध्रुवसङ्कल्पेन सर्वोच्चपदम् अलभत । सत्यं ध्रुवा इच्छाशक्तिः निष्फला न जायते । मनोरथस्य मार्गे निष्फलता नास्ति । १०-देशरत्नं डा. राजेन्द्रप्रसादः ******************************************************************** देशरत्नं डा. राजेन्द्रप्रसादः स्वतन्त्रभारतस्य प्रथमः राष्ट्रपतिः आसीत् । तस्य कार्यकालः प्रायः दशवर्षाण्यासीत् । तस्मिन् समये देशस्य उत्तमा प्रगतिरासीत् । राजेन्द्रप्रसादस्य जन्म १८८४ ईसवीये दिसम्बर-मासस्य तृतीयदिनाङ्के बिहारस्य सारणमण्डले जिरादेई ग्रामेऽभवत् । शिक्षायाः प्रारम्भकालतः एव एषोऽतीव मेधावी आसीत् । १९०० ईसवीये इण्ट्रेन्स परीक्षायाम् एषः सम्पूर्णे कोलकाता विश्वविद्यालये प्रथमं स्थानमलभत । सः एम. ए. एम. एल. परीक्षयोरपि सर्वप्रथमं स्थानं प्राप्तवान् । सर्वे तस्य योग्यतया विद्वत्तया च मुग्धाः आसन् । शिक्षां समाप्य स्ः आदौ कोलकातायां ततः पटनानगरे उच्चन्यायालये अधिवक्ता अभवत् । अधिवक्तृषु तस्य प्रतिष्ठा उत्तमा धनार्जनम् अत्यधिकं चास्ताम् । परन्तु महापुरूषाणां जन्म आत्मसुखाय न भवति । महापुरूषातु सर्वेषां सुखाय हिताय च जीवन्ति । १९१७ ईसवीये बिहारस्य चम्पारणे गाधिमहोदयः आङ्ग्लशासनं विरूध्य आन्दोलनं प्रारब्धवान् । तदा राजेन्द्रमहोदयः तस्य शिष्यः अभवत् । तेन अधिवक्तुः पदं धनार्जनं च परित्यक्तम् , देशसेवायाः व्रतं च स्वीकृतम् । १९३४ ईसवीये यदा बिहारे भीषणः भूकम्पः आसीत् तदा सः महतीं जनसेवामकरोत् । भारतस्य स्वतन्त्रतासङ्ग्रामे गान्धिमहोदस्य अनुयायिषु राजेन्द्रमहोदयः विशिष्टः आसीत् । सः निष्ठावान्, उत्साही परिश्रमी च स्वतन्त्रतासङ्ग्रामी आसीत् । १९२१ ईसवीयस्य असहयोगान्दोलने १९४२ ईसवीयस्य भारतं मुञ्च-आन्दोलने अन्येषु स्वतन्त्रतान्दोलनेषु च सः बहुवारं कारावासमपि असहत् । १९४७ ईसवीये यदा देशः स्वतन्त्रोऽभवत् तदा राजेन्द्रमहोदयः प्रथमः खाद्यमन्त्री अभवत् । ततः सः देशस्य प्रथमराष्ट्रपतिपदं चालङ्कृतवान् । २८ फरवरी १९६३ दिनाङ्के तस्य देहावसानभवत् । राजेन्द्रप्रसादः स्वभावेन सरलः मधुरभाषी चासीत् । सः भारतीयसंस्कृतेः प्रशंसकः संवर्धकश्च आसीत् । सरलं जीवनम्, उच्चः विचारः इत्येतस्य सः प्रत्यक्षम् उदाहरणमासीत् । तेन आजीवनं भारतीयं वस्त्रं धारितम् । सत्यं सरलता च तस्य जीवनमन्त्रौ आस्ताम् । एतस्य महापुरूषस्य महती देशसेवा उत्तमं च चरित्रं सर्वैरस्माभिः अनुकरणीयमेवास्ति । दुर्गापूजा दुर्गापूजा हिन्दूनां महोत्सवोऽस्ति । शरत्काले आश्विनमासे इयं पूजा सम्पूर्णे भारते श्रद्धया आनन्देन च सम्पादिता भवति । दुर्गापूजायाः विषये अनेकाः कथाः प्रचलिताः सन्ति । रावणेन सह युद्धात् पूर्वं श्रीरामः दशदिनानि यावत् दुर्गायाः पूजां कृतवान् । तस्याः प्रसादेन सः रावणं हतवान् लङ्कायां विजयं प्राप्तवान् च । तस्य विजयस्य स्मरणाय प्रतिवर्षम् इयं दुर्गापूजा अनुष्ठिता भवति । अनेकेषु स्थानेषु प्रतिवर्षम् अस्मिन्नवसरे रामलीलायाः प्रदर्शनं "विजयादशमी" कथ्यते । अपरे वदन्ति यत् अस्यां दशम्यां तिथौ देवी दुर्गा महिषासुरनामकं राक्षसं हतवती । अतः सर्वत्र दुर्गायाः महिषमर्दिनी प्रतिमा प्रतिष्ठिता पूजिता च भवति । देवीप्रतिमाः पूजास्थलानि चोत्तमरीत्या सज्जितानि भवन्ति । जनाः दुर्गायाः स्तवान् पठन्ति हवनं कुर्वन्ति च । बहुषु स्थलेषु संगीतनृत्यादयः मनोरञ्जकाः कार्यक्रमाः आयोजिताः भवन्ति । जनाः नूतनानि वस्त्राणि धारयन्ति । विविधानि मधुराणि खादन्ति खादयन्ति च । दशम्यामेव दुर्गायाः प्रतिमाः जले विसर्जिताः भवन्ति । हिन्दूनां मतेन दुर्गा आदिशक्तिः जगज्जननी चास्ति । तस्याह् प्रसादेन अधर्मः नश्यति धर्मः जय्ति च । एतया पूजया जनेषु धार्मिकभावना, आत्मविश्वासः, उत्साहः भ्रातृभावश्च संवर्धिताः भवन्ति । देवी दुर्गा विजयस्य प्रतीकम् अस्ति । गृध्रमार्जारकथा एकस्मिन् पर्वते एकः विशालः शाल्मलीवृक्षः आसीत् । तत्र एको जरद्गवो नाम वृद्धः गृध्रः वसति स्म । अन्य खगाः तस्मै जरद्गवाय स्वाहारात् किञ्चित् यच्छन्ति स्म । सोऽपि खगशिशूनां रक्षणं करोति स्म । एकदा दीर्घकर्णो नाम एकः मार्जारः खगशिशून् खादितुं तत्रागतवान् । तं दृष्ट्वा शिशवः भयेन कोलाहलं कृतवन्तः । तत् श्रुत्वा जरद्गवः मार्जारं पृष्टवान्- " कः त्वम् ? अत्र कथम् आगतवान् ?" सोऽवदत्- "अहं मार्जारः ।" गृध्रोऽवदत्-"मार्जाराः मांसप्रियाः भवन्ति। अत्र पक्षिशावकाः निवसन्ति । अतः दूरं गच्छ , अन्यथा त्वां मारयिष्यामि ।" मार्जारोऽवदत्-"अहं गङ्गायां नित्यं स्नात्वा अहिंसाव्रतम् आचरामि । ब्झवान् अतीव धर्मपरायणः इति जानामि । अतोऽत्र धर्मवार्तां श्रोतुम् आगतवान् अस्मि । अस्ति मम विचारः- अहिंसा परमो धर्मः ।" गृध्रस्य मनसि विश्वासः जातः । ततः सः मार्जारः प्रतिदिनं खगशिशून् कोटरं नीत्वा खदति स्म । क्रमशः शिशूनाम् अभावेन चिन्तिताः खगाः इतस्ततः अन्वेषणं कृतवन्तः । ते वृक्षकोटरे अस्थीनि दृष्टवन्तः । ते चिन्तितवन्तः यत् जरद्गवः एव शिशून् खदितवान् । अतः मिलित्वा ते तं जरद्गवं हतवन्तः । अत एव कथ्यते- अज्ञातकुशिलस्य वासो देयो न कस्यचित् । जयति एकबुद्धिः कस्मिंश्चित् जलाशये द्वौ मीनौ निवसतः स्म- एकः शतबुद्धिः अपरः सहस्रबुद्धिः च । तयोः एकबुद्धिर्नाम मण्डूकः मित्रमासीत् । ते त्रयोऽपि प्रतिदिनं कञ्चित् कालं परस्परं वार्तालापस्य सुखम् अनुभवन्ति स्म । एकदा सूर्यास्तसमये केचन धीवराः जलाशयस्य तटम् आगतवन्तः । तेष्वेकः अवदत्- "अहो! अस्मिन् जलाशये बहवः मीनाः सन्ति जलं स्वल्पं च । अतः प्रभाते आगत्य सर्वान् नेष्यामः ।" एवं विचार्य ते स्वगृहमगच्छन् । एवं श्रुत्वा तानि मित्राणि मिथः विचारमकुर्वन् । मण्डूकोऽवदत्-"भो शतबुद्धे! श्रुतं धीवरोक्तं भवता ? तत् किमत्र करणीयम्- पलायनम् अथवावस्थानम् ? यदुचितं तदद्य एव कर्तव्यम् ।" एतत् श्रुत्वा सहस्रबुद्धिः विहस्योक्तवान्- "भो मित्र ! न भेतव्यम् । अहं जले पलायनस्य बहुविधं कौशलं जानामि । यदा धीवराः आगमिष्यन्ति तदाहं त्वामपि बुद्धिबलेन रक्षयिष्यामि ।" तत् आकर्ण्य शतबुद्धिरकथयत् -"भोः ! साधु उक्तं भवता । जन्मस्थानं विहाय नान्यत्र गन्तव्यम् ।" मण्डूकोऽवदत् -"भद्रौ ! मम तु एका एव बुद्धिः । सा इदानीं पलायनम् इच्छति । अतोऽहम् अद्यैव भार्याया सह अन्यं जलाशयं गच्छामि ।" धीवराः अपि प्रभाते आगतवन्तः । ते मत्स्यान्, कूर्मान्, मण्डूकान् कर्कटादीन् च जलचरान् गृहीतवन्तः । पलायने विफलौ शतबुद्धिः सहस्रबुद्धिश्च धीवराणां जाले पतितौ धृतौ च । इदानीं शतबुद्धिः धीवरस्य मस्तके वर्तते सहस्रबुद्धिः तस्य हस्ते लम्बते च । एतद् दृष्ट्वा एकबुद्धिः मण्डूकः स्वप्रियां वदति- प्रिये ! पश्य पश्य ।