अपरीक्ष्य न कर्तव्यम् उज्जयिन्यां माधवो नाम ब्राह्मणः निवसति स्म । गृहे तस्य ब्राह्मणी तयोः नवजातः पुत्रश्च आस्ताम् । तत्र एकः नकुलशिशुरपि जातः । ब्राह्मणी मातृहीनं तं नकुलशिशुं बाल्यकालतः एव पुत्रवत् पालयति स्म ।एकदा ब्राह्मणी स्वपुत्रस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य जलमानेतुं नदीं अगच्छत् । तस्मिन्नेव अवसरे राज्ञः प्रासादात् किमपि दानं ग्रहीतुम् आमन्त्रणम् आगतम् । माधवश्च धनलोभात् तं नकुलं पुत्ररक्षार्थं व्यवस्थाप्य राजप्रासादं अगच्छत् । अस्मिन्नेव काले एकः कृष्णसर्पः बिलात् निर्गत्य बालकस्य समीपे अगच्छत् । तेन सर्पेण सह युद्धं कृत्वा नकुलः तं मारित्वान्तस्य खण्डशः कृत्वान् च । तदा तस्य नकुलस्य मुखं रक्तेन रञ्जितम् अभवत् । ततः स नकुलः मातरं ब्राह्मणीम् एतं समाचारं ज्ञापयितुं बहिः धावितवान् । मार्गे ब्राह्मणी आगता आसीत् । तथाविधं रक्तरञ्जितं नकुलं दृष्ट्वा सा अचिन्तयत्- "एषः नकुलः अवश्यमेव मम पुत्रं मारितवान् ।" अतः सा क्रोधेन जलपूर्णं घटं नकुलस्योपरि अक्षिपत् । तेन नकुलः तत्रैव पतितः मृतश्च । ततः सा ब्राह्मणी धावित्वा गृहम् आगत्य पश्यति यत् पुत्रः सुखेन स्वपिति तस्य समीपे सर्पः मृतः तिष्ठति च । इदानीं सा ज्ञातवती यत् नकुल एव सर्पं खण्डशः कृत्वा पुत्रं रक्षितवान् । अतः पुत्रतुल्यस्य नकुलस्य वधेन ब्राह्मणी भृशं सन्तप्ता अभवत् । कथितमस्ति- अपरीक्ष्य न कर्तव्यं, कर्तव्यं सुपरिक्षितम् ।