अबलायाः अध्यात्मशिक्षणम् चैत्रमासः-२००५ करतलरेखाः सुष्ठु अवलोक्य गणयित्वा ,नेत्रे निमील्य किमपि उच्चारयन्त: भूतभविष्यद्वर्तनानविषयान् निवेदयन्ति हस्तसामुद्रिकापण्डिताः। परं मैलारय्य: ततो अपि महान् । मुखस्य अध्ययनमात्रेण तत्रत्यानां चिह्नानां व्याख्यानं कर्तुं समर्थ: स: । परं तेन वर्तमानमात्रम् अधिकृत्य कथ्यते, न तु भूतस्य भविष्यत: वा विषये । तत्रापि स: केवलं स्वपत्न्याः सरस्वत्या: मुखम् अध्येतुम् शक्नोति। तत् तत् दिने दृष्टानि चिह्नानि सूक्ष्मतया परिशीलयन् तत्र जाताभिः रेखाभिः तस्याः अद्यतन मनःस्थितिं निश्चिनोति स:।( यथा- यदि ललाटे तिर्यक् रेखा: दृष्टा: तर्हि अस्वास्थ्यम् , लम्बा: रेखा: दृष्टा: चेत् कोप: नासिका सङ्कुचिता चेत् मात्सर्यम्, कर्णयो: रक्तता दृष्टा चेत् संशय:...... इत्यादि) एकदा तेन अपि पराजय: अङ्गीकरणीय: अभवत्। तत् दिने सरस्वत्या: मुखं तदा तदा जलस्थस्य मीनस्य इव पुनः पुनः उद्घाट्यते स्म पिधीयते स्म च । मैलारय्यस्य मुखसामुद्रिकासूच्याम् एतादृशस्य लक्षणस्य तु को अपि अर्थः वर्णित: नासीत् अतः तेन किमपि न ज्ञातम् । अन्ततो गत्वा स: धैर्येण तां पृष्टवानेव-"अद्य किमभवत् सरसि? कुत: निरुत्साहिनी दृश्यते भवती ?"इति। प्लिच्!! गृहगोधिका इव शब्दं कृतवती । सरस्वती । त्रिवारम् ओष्ठयो: सञ्चालनं कृत्वा " आवयोरपि वार्धकं सन्निहितं ननु? इति उक्तवती । ततश्च पत्युः मुखं तथा अपश्यत् यत् स्वस्य वार्धकप्राप्ते: कारणं सः एव इतिवत्। विस्मित: अपि मैलारय्यः गृहस्थ आश्रमे मौनमेव सर्वत्र साधनम्" इति अनुभवात् मन्यमानः प्रत्युत्तरं किमपि न अवदत् । " पश्यतु , पुत्रा: प्रौढाः जाताः । आरत्या: विवाहो अपि जात: । अनन्त: स्वस्य उद्योगे व्यग्र: अस्ति। अन्ये अपि स्वीयेषु व्यवहारेषु व्यापृता: । मयाः निर्धार: कृत: यत् इत: परं मम लक्ष्यं तु अध्यात्मदिशि इति।" मैलारय्य: भीतः । यतः पत्न्याः या कापि योजना भवतु नाम सा अतितीक्ष्णा तीव्रपरिणामकारिणी च भवति एव इति अनुभवेन जानाति स्म सः। काषायवस्त्रं ,कमण्डलु: ,विभूतिः रुद्राक्षमाला, जपातपोजटादिकं च स्मृत्वा एव स: अकम्पत। अत: .... किं करणीयमिति चिन्तितवती? " इति कम्पमानेन स्वरेण अपृच्छत् च । अस्माकम् अत्युत्तमः अध्यात्मग्रन्थ: क:? सरस्वती पृष्टवती। पत्नी अध्यात्मरता चेत् स्वस्य भोजनस्य का गति: इति महत्यां चिन्तायां पतित: मैलारय्यस्ते उत्तमस्य मध्यमस्य अधमस्य वा ग्रन्थस्य चिन्तने समर्थः न आसीत् । तस्य निवृत्तिपर्यन्तं जीवनं त्वरामयं यापितम् आसीत् । सर्वदा अर्धपक्वमेव किमपि भुक्त्वा त्वरया एव लोकयानं ग्रहितुं धावति स्म सः । परन्तु वर्षद्वयात्तु भोजनविषये सः नितरां तॄप्त: आसीत् । द्वादशवादने मृष्टान्नभोजनम् , चतुर्वादने रुचिकर: अल्यापाहार:। स्वेन अभिलषितं खाद्यं कारयित्वा खादित्वा सन्तृप्त्या निद्राति स्म सः । एतादॄशस्य सुयोगस्य अकस्मात् समाप्तिसूचनायां कथं वा स: उद्ग्रन्थस्य विषये चिन्तयेत्....? " हुँ..... भवता तदपि न ज्ञायते । भगवद्गीता ननु.....?" तस्य श्रवणेन कण्ठपर्यन्तम् आगतः मैलारय्यस्य श्वास: नाभि: गत: ! " एतावदेव खलु। पठतु नाम । एकवारं नैव, दशवारं पठतु । मम का हानि: ?" इति भावयन् सः उक्तवान्- "हेहे..... गीताया: व्याख्यानसहितं नूतनं पुस्तकम् आनयानि किम् ...? सम्पूर्णानन्देन गीतायज्ञे तदेव उपयुज्यते....।" पुस्तकं मया पुर्वमेव आनीतम् । नाहम् एककिनी एतत् करोमि । अन्या: अपि काश्चन अध्यात्मविषये आसक्ता: कारणीया: इति मम आशा । अतः प्रतिगुरुवासरं मध्याह्ने त्रिवादने मेलनं निश्चितं अस्ति । प्रतिवेशिन्यः परिचिता: सख्य: चेति सर्वा: महिला: आगमिष्यन्ति। मिलित्वैव गीतापठनं करिष्यते । आदौ अस्मद् गृहे। तदनन्तरं एक एक सप्ताहे एकैकस्या: गृहे " इति सरस्वती अवदत्। तत: गीतावाचनस्य सज्जता मगता सम्भ्रमेण प्राचलत्। गृहस्य कोणे कोणे स्थिता: धूलिकणा: ऊर्णनाभजालादय: अपसारिता: । जवनिका: समीकृत्य स्थापिता:। अन्त: स्थिता: सुखासनम्, उत्पीठिका , आसन्द: इत्यादय: गृहात् बहि: प्राकारस्य अन्त: तात्कालिकतया आश्रयं प्राप्नुवन्। मैलारय्य: पत्न्या: सर्वेषु कार्येषु सहकुर्वन् आसीत् । परन्तु यदा सरस्वती _ " बृहत् आस्तरणं त्रिंशत्संख्याका: स्थालिका: ,चषकाः चमसाश्च भाटकार्थम् आनीयन्ताम् " इति आदिष्टवती तदा तु नितरां विस्मित: अभवत्। भवतु नाम आस्तरणं , परम् अध्यात्मरतानां स्थालिकाचमसादय: कुत: ? इति प्रष्टुं यद्यपि इच्छा आसीत् तस्य, तथापि "मौनेन कलहो नास्ति" इति वचनम् अनुसृत्य तया आदिष्टम् सर्वम् आनीतवान् स:। तत:स्वयं च तत् दिने सार्धत्रिवादने एव सार्वजनिकवाचनालयं गत्वा उपविष्ट:। यथाकालं गृहास्यान्त: सम्मिलिता: गीतावाचनकर्त्र्य: । प्रकोष्ठे उत्पीठिकाया: उपरि स्थापित: अलङ्कृत: कृष्ण: सर्वाभि: नतः । भगवत: पुरत: ज्वालिता ’दर्बारगन्धविर्तिका सुगन्धं विकिरति स्म। नैवेद्यरुपेण समर्पणाय पुरत: संस्थापितं शाकान्नं जामूनखाद्यं च सर्वा: सकुतूहलम् अपश्यन् । अधुना सर्वा: सम्पूर्णानन्दस्य गीतायज्ञशैलीम् अनुसृत्य एककण्ठेन "ॐ" इति प्रणवस्य उच्चारणं कुर्वत्य: ध्वनिम् अवरोहणात् तारकं प्रति तथा नीतवत्य: यत् श्रुत्वा गृहसमीपस्था: कमपि अपायसूचकं भयङ्करं ध्वनिं मतवन्त: । एवं निश्चितम् आसीत् यत् महिलाः पठन्ति इत्यत: गीताया: मन्त्रवद् पठनं न भवेत्, अपि तु गीतवत् रागेण गातव्यम् इति । परन्तु तथा गानावसरे तत्र उपस्थिताभिः अष्टाविंशत्या महिलाभि: अष्टाविंशतिं श्रुती: आश्रित्य गीतम्। तस्य परिणामतः गीताया: प्रथमाध्यायस्य वाचनसमाप्तिवेलायां मैलारय्यस्य गृहस्य पुरत: अस्मिन् गृहे कोऽपि अनर्थ: प्रवृत्त: स्यात्; सन्तापसूचनं वा अस्माभिः कर्तव्यम् इति धिया शतश: जना: सम्मिलिताः । तदा सरस्वती बहिः आगत्य प्रवृत्तं निवेद्य तान् जनान् प्रेषयितुमपि यत्नम् अकरोत्। एतादृशेभ्य: अल्पक्लेशेभ्य: सरस्वती न विचलिता अभवत्। तस्या: तु कार्य साधनच्छलं दृढम् आसीत् । सा सप्ताहे एकवारं पत्यु: पुत्राणां च कृते पथ्यभोजनं कृत्वा परिवेष्य अल्पाहारम् असज्जीकृत्य एव गृहात् निर्गच्छति स्म गीतापारायणाय किमर्थं मम एष: उपवास: ? इति प्रष्टव्यं इति चापलं मैलारय्यस्य । परं सरस्वती इदमिदानीं अस्मिन् लोके एव नास्ति इतिवत् व्यवहरति स्म । किमपि पृष्टं चेदपि ’कर्मण्यवाधिकारस्ते .......’ इति वा ’वांसासि जीर्णानि ...’ इति वा गीताया: पङ्क्तिं वदन्ती उत्तरं यच्छति स्म। अतः तया सह आलापप्रयत्नमेव त्यक्तवान् मैलारय्यः। चत्वारः सप्ताहाः अतीता: मैलारय्यस्य शरीरभारः स्वयमेव न्यूनतां गत:। पुत्राः तु कामत्-अल्पाहारगृहम् अवलम्ब्य सुखेन आसन् । एतत् मध्ये कदाचित् अकस्मात् सरस्वत्याः बहिर्गमनं स्थगितम् अभवत् । ततः सप्ताहत्रयं यावत् तया गीतावाचनं यदा स्वगृहे एव व्यवस्थापितं ,न तु अन्यत्र तदा तु गृहे सर्वैः सन्देहगन्ध: आघ्रात: । पुत्रा: परस्परं मुखं पश्यन्त: दृष्टिसङ्केतेन एव तत् दिने चलनचित्रदर्शनाय गमनं निश्चितवन्त: । मैलारय्यस्तु परमप्रियाम् अपि मद्याह्ननिद्रां परित्यज्य दिशम् अजानन् इव इतस्तत: अटति स्म । एकदा गुरुवासरे प्रात: उत्थाय सरस्वती बहूनि पुस्तकानि एकस्य उपरि एकं चेति सम्यक् स्थापयित्वा रज्ज्वा बन्धनं कृतवती । समानाकाराणि तानि पुस्तकानि दृष्टवत: मैलारय्यस्य संशय: उत्पन्न: । स: कुतूहलेन अपृच्छत्- " कानि एतानि पुस्तकानि?" इति "गीतापुस्तकानि। रज्ज्वा बद्ध्वा स्थापितवती । एतानि उपरि अट्टे स्थापयतु। अद्य आरभ्य गीतावाचनं नैव भवति" - सरस्वती उवाच। महता उत्साहेन आरब्धस्य आध्यामिकसत्कारस्य अल्पायुस्त्वस्य कारणानि विलम्बेन ज्ञातानि । सदस्यासु काश्चन् गीतापुस्तकानि न क्रीतवत्य: इति । सरस्वत्या एव विंशतिं प्रतिकृती: क्रीत्वा वितीर्णा: इति । आरम्भदिनेषु यथासमयम् आगता: अपि सदस्या: दिनेषु गच्छ्त्सु प्रसादवितरणसमये एव आगच्छन्ति स्म इति तन्नाम तासां लक्ष्यं तु तत्र वितीर्यमाणप्रसादविषये, न तु गीता विषये ! श्लोकाध्ययनापेक्षया खाद्यपेयानां निर्माणे एव स्पर्धा अधिका जाता । अत: व्ययः अपि अत्यधिकः जातः। तादृशम् अतिरिक्तं व्ययभारं वोढुम् अनिच्छन्त: तासां पतयः पत्नी: आक्षिप्तवन्त: । अत: ता: सर्वा: गृहे एव स्थितवत्य: इति । अन्ततो गत्वा अध्ययनं अनुवर्तयितुं सरस्वत्या स्वगृहे एव प्रतिसप्ताहं कक्ष्यां व्यवस्थापयन्त्या प्रयत्न: कृत: । परन्तु सोऽपि विफलः जात: इति । "एतां चिटिकां स्वीकरोतु । अत्र यत् लिखितं तदनुसृत्य सर्वाभ्य: धनं प्रापयतु। सर्वस्य उत्तरदायित्वं मम एव आसीत् खलु" इति सरस्वती पतिम् आदिदेश। मैलारय्य चिटिकाम् अपश्यत्। सूक्ष्मावलोकनेन स: ज्ञातवान् यत् सा सा आवलिः आसीत् यत्र यदा मातरः अध्यात्मनिरताः आसन् तदा बहिः क्रीडद्भि: तदपत्यै: भञ्जितानां वातायनकाचकानां पातितानां उद्यान- व्रतीनां मोचितानां पञ्जरस्थशुकानां, नाशितानां पुष्पकुण्डानां तादृशानाम् अन्येषां वा मूल्यपूरणाय प्रत्यर्पणीयस्य धनस्य विवरम् अस्ति । मैलारय्यः दीर्घं नि:श्वसन् यावत् धनस्यूते विद्यमानं धनं गणितवान् तावत् कोणे उत्पीठिकायां स्थित: कृष्णः स्मयमानः आसीत् । (संस्कृतानुवादः- चारुमति:) ॥ इति शम्॥