स्तुति-श्लोकाः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१॥ मूकं करोति वाचालम्, पङ्गुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे, पर्मानन्द-माधवम् ॥२॥ विद्या ददाति विनयं, विनयाद् याति पात्रताम् । पात्रत्वाद् धनम् आप्नोति, धनाद् धर्मं ततः सुखम् ॥३॥ अभिवादन्शीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥४॥ अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायति क्षयमायति सञ्चयात् ॥५॥ यस्य बुद्धिर्बलं तस्य कस्मिंस्चिद् वने भासुरकः नामः सिंहः अवसत् । सः प्रतिदिनम् अनेकेषां पशूनां वधम् अकरोत् । एकदा वनस्य सर्वे पशवः तस्य सिंहस्य समीपमगच्छन् अवदत् च - "मृगेन्द्र ! त्वं किमर्थं पशूनां वधं करोषि ? यदि एकेनैव तव तृप्तिर्भवति वयं स्वयमेव तव भोजनाय प्रतिदिनम् एकं पशुं प्रेषयिष्यामः । " तेषां वचनानि श्रुत्वा भासुरकोऽवदत् -"यदि यूयम् एवं वदथ तर्हि भवतु तथा । परन्तु यदि कस्मिंस्चिद् दिवसे मम भोजनाय एकः पशुः नागमिष्यति तर्हि अहं सर्वेषां पशूनां वधं करिष्यामि । " ततः प्रभृति प्रतिदिनम् एकः पशुः सिंहस्य भोजनाय तस्य समीपमगच्छत् । एकदा एकस्य शशकस्य वारः आसीत् । सः अचिन्तयत् - "यदि मम मरणं निश्चितमस्ति तर्हि अहं मन्दं मन्दं गच्छामि । " सः शशकः मार्गे एकं कूपमपश्यत् । तस्मिन् कूपे स्वप्रतिबिम्बं दृष्ट्वा सः एकम् उपायमचिन्तयत् । अथ सः शशकः तस्य सिंहस्य समीपे विलम्बेन अगच्छत् । क्षुधापीडितः भासुरकः तं दृष्टवा क्रुद्धोऽभवत् अपृच्छत् च - "किमर्थं त्वं विलम्बेन आगतोऽसि ? प्रातः अहमवष्यमेव सर्वेषां पशूनां वधं करिष्यामि । " शशकः विनयेन अवदत् -"मृगराज ! अत्र अहम् अन्येषां च पशूनां दोषो नास्ति । अहं तु पञ्चशशकैः सह तव समीपे आगन्तुं प्रवृतः आसम् । परं मार्गे एकः अपरः सिंहः अस्मान् अमिलत् अवदत् च -"अहमस्य वनस्य नृपः अस्मि । अतः अहं युष्मान् भक्षयिष्यामि । " अहं तमवदम् - "अस्य वनस्य नृपस्तु भासुरकः नाम सिंहः अस्ति । सः अद्य अस्मान् भक्षयिष्यति । " एतत् श्रुत्वा सः सिंहः अतिक्रुद्धोऽभवत् । अहं तु पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगतोऽस्मि । " एतदाकर्ण्य भासुरकः क्रोधेन अवदत् -"सः अपरः सिंहः कुत्र वसति ? तं शीघ्रं मह्यं दर्शय । " तदा सः शशकः भासुरकमेकस्य कूपस्य समीपे अनयत् अकथयत् च - " अस्मिन् कूपे सः सिंहः वसति । " भासुरकः तस्मिन् कूपे स्वप्रतिबिम्बं दृष्ट्वा अयम् अपरः सिंहः इति मत्वा उच्चैः अगर्जत् । स्वशब्दस्य प्रतिध्वनिं श्रुत्वा सः तस्मिन् कूपे अकूर्दत् प्राणान् च अत्यजत् । उक्तञ्च - बुधिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मतः शशकेन निपातितः ॥ सूर्योदयः सूर्यः प्रातःकाले पूर्वस्यां दिशायां उदेति । प्रातःकाले सूर्यस्य प्रकाशः अन्धकारम् अपनयति । तदा प्रकृतेः शोभा अतीव रमणीया भवति । शीतलः सुगन्धः च समीरः वहति । खगाः वृक्षेषु मधुरं कुजन्ति । उपवनेषु पुष्पाणि सरोवरेषु च कमलानि विकसन्ति । विकसितानां पुष्पाणामुपरि स्थित्वा भ्रमराः गुञ्जन्ति । आश्रमेषु मुनयः स्नानं कृत्वा सूर्यं नमन्ति ईश्वरं च भजन्ति । ग्रामेषु कृषकाः प्रातराशं कृत्वा हलसहितान् बलीवर्दान् नीत्वा क्षेत्राणि प्रति गच्छन्ति । जनाः उपवनेषु भ्रमणं कुर्वन्ति । छात्राः विद्यालयं गच्छन्ति । ते तत्र पाठान् पठन्ति लेखान् च लिखन्ति । अस्माकं जीवने सूर्यस्य अत्यधिकं महत्त्वमस्ति । अस्यैव प्रकाशे सर्वः व्यवहारः प्रचलति । दिनपति-रवि-दिनमणि-आदित्य-भास्कर-दिनेश-इत्यादीनि अस्य अनेकानि अभिधानानि सन्ति । गायत्रीमन्त्रः अस्यैव स्तुतिं करोति । महात्मा गान्धी महात्मनः गान्धिनः जन्म १८६९ तमे वर्षे अक्तूबरमासस्य द्वितीयायां तारिकायाम् गुजरातप्रदेशे पोरबन्दरनाम्नि नगरेऽभवत् । अस्य पितुः नाम "करमचन्दगान्धी" मातुः च नाम "पुतलीबाई" आसीत् । बाल्यकाले स अतीव सरलः सत्यवादी चासीत् । स पोरबन्दरे एव प्राथमिकीं शिक्षाम् अलभत् । एकदा तस्य विद्यालये एकः निरीक्षकः आगच्छत् । सः छात्रान् परीक्षितुं "कैटल" इति आंग्लभाषायाः शब्दं लेखितुमादिशत् । मोहनदासः तं शब्दमशुद्धम् अलिखत् । तदा तस्य अद्यापकः अन्यस्य समीपस्थस्य छात्रस्य पुस्तिकां दृष्ट्वा तस्य शब्दस्य वर्णविन्यासम् अनुकर्तुं तं संकेतेनाकथयत् । परं तेन एतद् नाचरितम् । यदा स उच्चशिक्षायै इंग्लैण्ड-देशमगच्छत् तदा सः प्रतिज्ञात्रयमकरोत् - १. अहं कदापि मदिरां न सेविष्ये । २. अहं मासं न भक्षयिष्यामि । ३. परनारीं मातृतुल्यामवगमिष्यामि । सः जीवनपर्यन्तम् एतानि प्रतिज्ञावचनानि अक्षरशः अपालयत् । इंगलैण्ड-देशे "बैरिस्टर" इत्युपाधिं प्राप्य स्वदेशं प्रत्यागच्छत् । भारतमागत्य सः अहिंसामवलम्ब्य स्वदेशस्य स्वतन्त्रतायै प्रयत्नशीलोऽभवत् । एतदर्थं सः असहयोग-आन्दोलनं प्रावर्तयत् । सः अनेकवारं सत्याग्रहमकरोत् । "आंग्लीयाः ! भारतं त्यजत् ।" इति आन्दोलनमपि प्रारभत । आंग्लीयाः बहुवारं तं कारागारे अक्षिपन् । अस्य महापुरुषस्य प्रयत्नैः भारतं स्वतन्त्रमभवत् । महात्मना गान्धिना धर्मविषये आचारविषये च बहु लिखितम् । परं "सत्यस्य मम प्रयोगः" इति शीर्षकेण आत्मकथा श्रीमदभगवद्गीतायाश्च अनासक्तिनामकं भाष्यम् इति रचनाद्वयं महत्त्वपूर्णमस्ति । एषः महापुरूषः "राष्त्रपिता" इतिभिधानमपि प्राप्तवान् । १९४७ तमे वर्षे जनवरीमासस्य त्रिंशत्तम्यां तारिकायां एकस्य घातकस्य गुलिकया आहतो भूत्वा "हे राम" इत्युच्चारयन् सः स्वदेहम् अत्यजत् । त्रयो धूर्ताः कस्मिंश्चिद् नगरे मित्रशर्मा नाम एकः ब्राहमणः अवसत् । सः एकदा एकम् अजं स्कन्धे कृत्वा गृहं प्रत्यगच्छत् । तदा त्रयो धूर्ताः मार्गे तं ब्राहमणम् अपश्यन् अचिन्तयन् च - "एतस्मात् ब्राहमणात् एषः अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।" अथ तेषु धूर्तेषु एकः धूर्तः वेषपरिवर्तनं कृत्वा तस्य ब्राहमणस्य सम्मुखे आगच्छत् अपृच्छत् च - "भो ब्राहमण ! त्वम् एतं कुक्कुरं किमर्थं वहसि ?" तस्य वचन् श्रुत्वा मित्रशर्मा अवदत् - "एषः कुक्कुरः न अस्ति । एषः तु अजःअस्ति ।" अथ किञ्चिद् दूरं गत्वा तं ब्राहमणं द्वितीयः धूर्तः अमिलत् अभणत् च - "भो ब्राहमण ! त्वं किमर्थम् एतम् अपवित्रं कुक्कुरं स्कन्धे कृत्वा नयसि ?" तदा सः ब्राहमणः क्रुद्धोऽभवत् अकथयत् च - "हे मुर्ख ! किं त्वं अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?" अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राहमणं अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम् `अयं कुक्कुर' इति मत्वा भूमौ अक्षिपत् अगच्छत् च । त्रयो धूर्ताः तम् अनयन् अपचन् अभक्षयन् च । नीति- श्लोकाः नास्ति लोभसमोव्याधिः नास्ति क्रोधसमो रिपुः । नास्ति दारिद्रयवत् दुःखं नास्ति ज्ञानात् परं सुखम् ॥१॥ न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥२॥ स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयम् पुनः गच्छति शीतताम् ॥३॥ चिन्तनीया हि विपदामादौ एव प्रतिक्रिया । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥४॥ दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥५॥ भारतवर्षस्य उत्तरदिशायां हिमालयो नाम पर्वतोऽस्ति । अस्य पर्वतस्य शिखराणि अत्युन्न्तानि सन्ति । एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति । अत एव अस्य पर्वतस्य अभिधानं हिमस्य आलयः हिमालय इति प्रसिद्धोऽस्ति । हिमालयात् गंगा-यमुना-शतद्रु-विपाशा-इरावती-वितस्ता-प्रभृतयः अनेकाः नद्यः प्रादुर्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति । अत एव अस्मिन् देशे प्रभूतानि विविधानि अन्नानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवः विविधानि च रत्नानि उपलभ्यन्ते । ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीयस्थलेषु गच्छन्ति सुखं च अनुभवन्ति । अस्मिन् एव पर्वते मानसरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयानि तीर्थस्थानानि अनेके च देवालयः सन्ति । एतस्मिन् पर्वते स्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति । अत्र देवीनां मन्दिराणि अपि सन्ति । एतस्मात् कारणात् अयं पर्वतो देवभूमिरापि कथ्यते । हिमेन आच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यश्च अस्मान् रक्षन्ति । अयं पर्वतः सुरक्षा-दृष्टया अतीव महत्वपूर्णोऽस्ति । अनेनैव कारणेन अस्माकं सुरक्षा-सैनिकाः अस्य रक्षायै तत्पराः भवन्ति । मत्स्यत्रय -कथा कस्मिंश्चित् जलाशये अनागतविधाता, प्रत्युपन्नमतिः यद्भविष्यश्चेति त्रयः मत्स्याः अवसन् । कदाचित् तं जलाशयम् अवलोक्य धीवराः परस्परम् अवदन् - "अस्मिन् जलाशये बहवः मत्स्याः अस्न्ति । प्रभाते अस्माभिः अत्र अवश्यम् एव आगन्तव्यम् ।" "एतादृशं निश्चयं कृत्वा ते अगच्छन् । तदनन्तरं तेषां वचनं श्रुत्वा तेषु मत्स्येषु अनागतविधाता नाम मत्स्यः अकथयत् - "श्वः प्रभातसमये ते धीवराः अत्र आगमिष्यन्ति सर्वान् च मत्स्यान् जाले बद्ध्वा नेष्यन्ति । अतः अहम् अन्यत्र गमिष्यामि ।" एतत् आकर्ण्य प्रत्युत्पन्नमतिः नाम मत्स्यः अवदत् - "त्वया सम्यग् आलोचितम् । अहम् अपि त्वया सह गमिष्यामि । " तस्य वचनं श्रुत्वा यद्भविष्यः नाम मत्स्यः उच्चैः विहस्य अकथयत् -" न् सम्यगेतत् यतः तेषां धीवराणां कथनमात्रेण एतस्मात् जलाशयात् अन्यत्र गन्तुमिच्छतः । अहं तु अत्र एव स्थास्यामि ।" अथ यद्भविष्यस्य निश्चयं ज्ञात्वा अनागत्यविधाता प्रत्युपन्नमतिः च अन्यत्र अगच्छताम् । प्रभाते धीवराः तत्र आगच्छन् यद्भविष्यम् अन्यान् च सर्वान् मत्स्यान् जाले बद्ध्वा अनयन् । तथा च उक्तम् - अनागतविधाता च प्रतुत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनष्यति ॥ स्वतन्त्रता-दिवसः स्वतन्त्रता-दिवसः भारतवर्षस्य राष्ट्रियः उत्सवः अस्ति । अयम् उत्सवः अगस्तमासस्य पञ्चदश्यां तिथौ भवति । पूर्वं भारतदेशः पराधीनः आसीत् । अस्मिन् एव दिवसे १९४७ तमे वर्षे अस्माकं देशः स्वतन्त्रोऽभवत् । अतः एव भारतीयाः प्रतिवर्षम् एतस्मिन्नेव दिवसे इमम् उत्सवं समायोजयन्ति । लोकमान्यः बालगंगाधरतिलकः, महात्मा गान्धी, जवाहरलालः नेहरूः एते अन्ये च अनेके महापुरुषाः भारतदेशस्य स्वतन्त्रतायै महान्तं प्रयत्नम् अकुर्वन् । भारतस्य स्वतन्त्रतायाः कृते भगतसिंहसुखदेवआदयः अनेके देशभक्ताः स्वप्राणान् अत्यजन् । दिल्लीनगरे एतस्य उत्सवस्य शोभा अतीव रमणीया भवति । एतस्मिन् दिवसे प्रातः रक्तदुर्गस्य प्राकारे अस्माकं देशस्य प्रधानमन्त्री ध्वजारोहणं करोति । ध्वजारोहणानन्तरं प्रधानमन्त्री देशं प्रति सन्दिशति । गृहेषु स्थिताः जनाः अपि इमं कार्यक्रमं दूरदर्शने अवलोकयन्ति । रात्रौ विद्युद्दीपकैः सर्वाणि राष्ट्रियभवनानि शोभन्ते । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । एतस्मिन् एव दिवसे वयं प्रतिज्ञां कुर्मः यद् वयं श्रेष्ठाः नागरिकाः भविष्यामः, भारतस्य सर्वाविधविकासाय प्रयत्नशीलाः भविष्यामः अस्य च स्वतन्त्रतां प्राणपणेन रक्षिष्यामः । महर्षिः दयानन्दः काठियावाड़प्रान्तस्य टंकारानामके ग्रामे मूलशंकरस्य जन्म अभवत् । अस्य जनकस्य नाम कर्षणलालः आसीत् । अष्टमे वर्षे मूलशंकरस्य यज्ञोपवीत-संस्कारः अभवत् । अस्य स्मरणशक्तिः अद्भुता आसीत् । चतुर्दशे वर्षे सः यजुर्वेदसंहिताम् कण्ठस्थाम् अकरोत् । शिवस्य महत्तां श्रुत्वा सः शिवरात्रौ व्रतम्