पुण्यम् उत पापम् ...? फाल्गुनमासः-२००५ अद्य सुब्रह्मण्यस्य मनः स्वस्थं न आसीत्। पूजां कुर्वत: अपि तस्य मन: अन्यद् एव चिन्तयति । चन्दनपेषणं जलेन कर्तव्यम्; परन्तु सः दुग्धेन कृतवान् । अभिषेकाय उपयोक्तव्यस्य जलस्य स्थाने तैलम् उपयोक्तुम् उद्युक्त: अभवत्। गतसप्ताहात् सुब्रह्मण्यस्य स्थिति: एतादृशी एव अस्ति। नितरां दिग्भ्रान्त: इव दृश्यते सः । मन्दिरे अद्यत्वे बहबः जनाः न भवन्ति अतः तस्य इयम् अवस्था केन अपि न लक्षिता । ग्रामस्य एकमात्रं मन्दिरं एतत् । स्वर्णाम्बिका अत्र प्रधानदैवतम्। सुब्रह्मण्यः अत्र अर्चक: । उत्सवदिनेषु मन्दिरे जनानां सम्मर्दः भवति । तादृशेषु दिनेषु दक्षिणारूपेण किञ्चित् अधिकं धनं प्राप्नोति सः। अन्येषु दिनेषु अङ्गुलिगणनीयाःएव मन्दिरम् आगच्छन्ति । तदा तु भगवती स्वर्णाम्बिका अर्चक: सुब्रह्मण्यः च परस्परं सहायौ । मन्दिरम् एव सुब्रह्मण्यस्य द्वितीयं गृहम्। स्वर्णाम्बिका च द्वितीया माता । तया सह भाषमाणः एव तिष्ठति स: । वर्षद्वयात्पूर्वं सुब्रह्मण्यस्य पिता दिवङ्गतः । तदा ग्रामीणाः एव तं पितु: स्थाने मन्दिरस्य अर्चक रुपेण नियुक्तवन्तः । न केवलं अर्चकस्य ,अपि तु सेवकस्य , व्यवथापकस्य च इति मन्दिरस्य समस्तम् अपि कार्यजातं स: एव निर्वहति । तत्सर्वं स्वधर्मं मत्वा निर्दोषम् आचरति स: । विधवा माता सुब्रह्मण्येन सह निवसति तयोः वास-वस्त्र-भोजन आदिव्यवस्था मन्दिरपक्षत: एव निरुह्यते । अन्यत् किमपि ताभ्यां नैव कांक्षितम् आसीत् । अधुना अपि स: यत् कृतवान् तत् अपि स्वार्थाय न खलु? किं सा भगवती स्वर्णाम्बा तत् ज्ञातवती..? गते शुक्रवासरे ताभ्यां दम्पतिभ्याम् आगतम् आसीत्। सुब्रह्मण्यः सन्तुष्टः अभवत्। धनिकौ तौ दम्पती । तादृशा: तु कदाचित् एव मन्दिरम् आगच्छन्ति । स उत्साहं सुब्रह्मण्यः मन्दिरस्य इतिहासं वर्णितवान् - " विजयनगरराजै: निर्मापितम् एतत् मन्दिरम् । पञ्चशत अधिकवर्षेभ्यः पुरातनम्। स्वर्णाम्बिका अत्रत्या आराध्या देवी । वरदहस्ता सा शरणम् आगतान् पुत्रान् इव रक्षति पोषयति च । कन्यायाः विवाहार्थं यदि अत्र प्रार्थना क्रियते तर्हि अनतिकालेन एव तस्याः विवाहः भविष्यति...." सुब्रह्मण्यस्य सम्भाषणं तयो: मन: आकर्षत् । पतिः उक्तवान्- "एतत् तु शुभशकुनम् एव । आवयोः पुत्र्याःविवाह निश्चितः अस्ति । वर: अत्र समीपस्थे ग्रामे निवसति। विवाहविषयकवार्तालापार्थम् एव आवाभ्यां तस्य गृहं प्रति गम्यते अधुना। मध्ये भाग्यवशात् स्वर्णाम्बिकाया: दर्शनभाग्यं प्राप्तम्....।" क्षणम् विरम्य पुनः उक्तवान्-" यद्यपि भगवत्याः विशेषपूजा कारणीया आसीत् । परन्तु अधुना मम समय: नास्ति । अत: भवान् एव मम नाम्ना देव्याः स्वर्णाम्बिकायाः निमित्तं सुवर्णमाङ्गल्यं दुकूलवस्त्रं च क्रीत्वा ताम् अलङ्करोतु । अन्यत् अपि यत् अपेक्षितं तत् अपि करोतु। विशेषपूजां च करोतु । " एवम् उक्त्वा रुप्यकाणां बन्धमेकं तस्य ह्स्ते संस्थाप्य सः पत्न्या सह ततः निर्गतः एव। सुब्रह्मण्यः आश्चर्येण गच्छन्तं तम् एव पश्यन् आसीत्। ततः देवीम् उक्तवान्- अम्ब ! अद्य सुदिनम् । अद्य भवत्या: विशेषपूजा भविष्यति...। विना विलम्बं सः आपणं गत्वा सुवर्ण माङ्गल्यं दुकूलवस्त्रम् अन्यानि पूजाद्रव्याणि च क्रीतवान्। अभिषेकार्थम् अपि सर्वं सज्जीकृतवान् । " तदा एव अध्यापकः गोविन्दः सन्ध्या दीप आराधनं द्र्ष्टुम् सपरिवारं मन्दिरम् आगतवान्। " आगच्छतु ,स्वागतम् । अद्य विशेषपूजां द्रष्टुं के अपि न सन्ति इति चिन्ता मग्नः आसम्। सुष्ठु जातं भवताम् आगमनम् ..." -सुब्रह्मण्यः तान् दृष्ट्वा उक्तवान् । मम मन्दिर आगमने किम् आश्चर्यम् ? नैकवारम् आगतं मया । प्रार्थना अपि बहुवारं कृता। परन्तु स्वर्णाम्बिकायाः अनुगृहः दुर्लभः एव जात: मयि । अस्माकं विषये तु सा अन्धा जाता इति प्रतिभाति....।" गोविन्दः अवदत्। न,न । एवं मा वदतु । सा सर्वज्ञा। यदा करणीयं तद् तदा करिष्यति एव सा । भवतु तत् दिने भवता पुत्र्याः कृते वरः लब्धः इति उक्तम् आसीत्। अग्रे किम् अभवत्...? "ते तु सज्जनाः एव वरदक्षिणाम् अपि न अपेक्षितवन्तः परन्तु सुवर्णमाङ्गल्यं दुकुलवस्त्रं च दातव्यम् एव इति अपेक्षन्ते । वस्तुत: तत्र न कोऽपि दोष: परन्तु तावत् कर्तुम् अपि अहम् असमर्थः अस्मि। अतः हस्तगतम् अपि भाग्यं च्युतं भविष्यति..." अत्यन्तं विषादेन उक्तवान् गोविन्दः । पितुः वचनैः साश्रुनेत्रा दृष्टा पुत्री सुशीला । अन्वर्थं नाम तस्याः । सा सुशीला एव । कमलम् इव मुखं तस्याः । सत्यम् , अविकसितं कमलम् । तां दृष्टवतः सुब्रह्मण्यस्य हृदये दयाया: प्रवाहः उद्गतः । सुब्रह्मण्यः गर्भगृहान्त: विराजमानां स्वर्णाम्बिकां वीक्षितवान्। तस्याः चरणयोः दृष्टे सुवर्णमाङ्गल्यं दुकुलशाटिका च । ’अम्ब ! एते च भवत्याः’ अलङ्कारमात्रं भवतः। परन्तु सुशीलायाः तु भवतः नवजीवनप्रदायिके। एताभ्यां तस्याः विवाहयोग्यता प्राप्ता भविष्यति..." पुनः सः अम्बाम् अवलोकितवान् । " किम् मम मनसि उत्पन्नः विचारः उत अयोग्य ....? अम्बायाः मुखे मन्दहासः । नास -आभरणकान्त्या विराजते तस्याः वदन अरविन्दम् । सा मौनम् अस्ति। मौनं सम्मतिसूचकम्। यथा यथा बहिः घण्टानादः जातः तथा तथा तस्य संकल्पः अपि दृढः जात:। सः कयापि शक्त्या प्रेरितः इव झटिति गत्वा माङ्गल्यवस्त्रादिभि: युक्तं पूजापात्रं गृहीत्वा बहिः आवतवान् । सुशीलायाः हस्तयोः तत् स्थापयित्वा" सुमङ्गली भव" इति उक्तवान्। गोविन्दपरिवारः सम्भ्रान्तः जातः।"किमिदम्... ! किं करोति भवान्....? देव्याःचरणात्...." मा अस्तु चिन्ता। केनचित् धनिकेन दत्तानि एतानि। "कस्यैचित् कन्यायै दानरुपेण दातव्यानि एतानि" इति मान् आदिष्टवान् अस्ति सः । तस्य सा एव अपेक्षा। निश्चिन्ततया एतानि गृह्णन्तु ।सुशीलायाः विवाहं शीघ्रम् एव निर्वर्तयन्तु..." सुब्रह्मण्यः अवोचत्। तस्मिन् समये सुखेन अनृतं प्रयुक्तं आसीत् । दानसमये हस्तकम्पनम् अपि न आसीत् । परन्तु इदानीं सम्पूर्णे शरीरे वेपथुः जायते । यतः त्रिचतुरेभ्यः दिनेभ्यः तस्य माता अस्वस्था अस्ति। औषधसेवनेन अपि तस्याः ज्वर: न्यूनः न जातः । " किं मातुः द्वारा स्वर्णाम्बिका माम् एव दण्डयितुम् इच्छति...?" भीत्या सः अम्बां वीक्षितवान्। सा यथापूर्वं स्थितवती अस्ति सा सर्वदा अपि साक्षिरुपेण तिष्ठति। कदा अपि स्व अभिप्रायं न प्रकटयति। " मम को अपि न अस्ति । भवतीम् एव शरणं गच्छामि । प्रमादः मया कृतः ।को मां क्षाम्यतु । मातरं रक्षतु" उच्चारितवान् च । किन्तु स्वर्णाम्बिका तं क्षन्तुं न इष्टवती इति प्रतीयते । यतः तस्यां रात्रौ मातु: ज्वरः इतो अपि अधिक: जातः ।सा अतीव क्षीणा दृष्टा । दुःखितः सुब्रह्मण्यः किङ्कर्तव्यतामूढः जातः । उषसि माता क्षीणस्वरेण पुत्रम् आहूतवती । उक्तवती च -" पाकशालायाम् ईशान्यकोणे मम लोहपेटिका अस्ति ।ताम् अत्र आनय..."। अम्ब! पेटिकायाः का आवश्यकता इदानीम्...? निद्रां करोतु , प्रातः वैद्यम् आनेष्यामि ..." " किञ्चित् वक्तव्यम् अस्ति । दर्शनीयम् अपि किञ्चित् अस्ति। पेटिकाम् आनय ....। इदानीम् एव ..." माता उक्तवती। विस्मितः सुब्रह्मण्यः पाकशालां गतवान्। तत्र अन्विष्य मातुः तां भारयुतां पेटिकां ततः समीपम् आनीतवान् । माता शनैः उत्थाय उपविष्टवती श्रमेण पेटिकाम् उद्घाटितवती च । ततः स्यूतम् एकं गृहीत्वा पुत्रस्य अङ्के क्षिप्तवती। "वत्स! एतानि तव पार्श्वे एव भवन्तु। भाविन्याः मम स्नुषायाः कृते मया सुरक्षितानि एतानि..." सुब्रह्मण्यःस्यूतात् वस्तुनि बहिःनिष्कासितवान्। तत्र आसन्-एकं सूत्रं सुवर्णमाङ्गल्यसहितम्, एका कौशेयशाटिका, अन्यानि अपि कानिचन वस्तूनि...।"तव विवाह कर्त्तव्यः इति मम इच्छा आसीत् परन्तु न शक्ता । मम आरोग्यम् अपि सम्यक् न अस्ति.....।"एवं वदन्ती सा पुत्रस्य मुखं दृष्टवती तस्य नेत्राभ्यां प्रवहन्तीम् अश्रुधारां दृष्ट्वा सा भीतिं प्राप्तवती । "किम् अभवत्....? किं रोदिषि...?" मातु: प्रश्नं श्रुत्वा सुब्रह्मण्यः चेतनां पुनः प्राप्तवान् एव । " स्वर्णाम्बिका न केवलं साक्षिणी। अपि तु सा मार्गदर्शिनी च ..." पुलकितः सः एवम् उक्त्वा प्रवृतं सर्वं मातरं निवेदितवान्। अन्ते च-अम्ब! भवती किञ्चित् विश्रान्तिं स्वीकरोतु। अहम् इदानीम् एव प्रति आगच्छामि" इति उक्त्वा स्यूतं स्वीकृत्य तत: उत्थितवान्। " कुत्र गच्छसि त्वम्...?एतानि कुत्र नयसि....? "मन्दिरम् एव । एतानि तस्याः पादयोःसमर्पयामि । मम पापनिवारणस्य मार्गः तयोः एव दर्शितः खलु...." वत्स! अलं तादृशेन दुस्साहसेन। पुनः पुनः दोषान् एव करोमि इति सङ्कल्पः कॄतः अस्ति किं त्वया?" अम्ब किं कथयति भवती....? सः विगतचेतनः इव मातुः पार्श्वे उपविष्टवान् "दुस्साहसम् इति? तस्याः सकाशात् गृहीतानि तस्यै एव अर्पयितुम् इच्छामि । एतत् तु सत्कार्यम् एव खलु ?एतेन मम पापनिवारणं भवति इति मत्वा..." तस्य वचनं मध्ये एव खण्डयन्ती माता उक्तवती-" प्रथमं जगन्मातुः विश्वासघातः कृत: त्वया। इदानीं तव जन्मदात्र्याः अपि आशाभङ्गं करोषि । द्वयम् अपि समानम् एव। तयोः वञ्चनं किं सत्कार्यम्...?" दीर्घं निःश्वस्य सा पुनः उक्तवती- असमाप्तप्रार्थनादोषेण देवीवस्तुस्वीकरण-दोषेण वा तयोः उभयोः महिलयोः वैवाहिकजीवने किम् अपि कष्टं न भवेत् इत्यत्र किं प्रमाणं वक्तुम् अर्हसि त्वम्...? मातुः प्रश्नेन सुब्रह्मण्यः स्तम्भितः जातः। पुत्रस्य म्लानं वदनं दृष्ट्वा माता तस्य शिरः वात्सल्येन स्पृशन्ती उक्तवती - वत्स! कदापि मा विस्मर यत् स्वार्थाय परार्थाय वा भवेत् ,लोकानां द्रव्यविषये स्वेच्छया व्यवहारः न उचितः । तेन कस्यापि पुण्यं न भवति । प्रत्युत पापम् एव भवति।" तर्हि इदानीम् मया किं करणीयम्...?"पुत्र: अपृच्छत्। स्वल्पम् एव कुतो न स्यात्, स्वकर्मणा अर्जितेन धनेन एव सुवर्णमाङ्गल्यं दुकुलवस्त्रं च क्रीत्वास्वर्णाम्बिकायै समर्प्य ॠणविमुक्तो भव.....। न अस्ति अन्य: उपाय:। " परधर्मो भयावहः" इति किं न पठितं त्वया? सर्वदा स्वधर्मं पालय। तेन एव वयं रक्षिताः भवेम ।" श्रान्त्व्या शय्यायां पतित्वा नेत्रे निमीलितवती माता। सुब्रह्मण्य: तत्र एव उपविश्य अन्तरङ्-अगवलोकनं कर्तुं आरब्धवान्। ॥इति शम्॥