सद्यः प्रक्षालकवृत्तिः फाल्गुनमासः-२००५ किञ्चन राज्यम् आसीत् । तस्य राज्यस्य महाराजः महान् दैवभक्तः। तस्य भगवति अचलः विश्वासः । तस्य एका परमसुन्दरी भक्तिमती च पुत्री आसीत् । भगवति यस्य सम्पूणः विश्वास: भवति तस्मै एव मम पुत्री दातव्या इति महाराजस्य इच्छा । यः मम पुत्र्याः पतिः भविष्यति सः वास्तविकः त्यागी अपि भवेत् इति महाराजः सर्वदा चिन्तयति स्म । किन्तु महता अन्वेषणेन अपि तादृशः महापुरुषः को अपि न लब्धः । पुत्री विंशतिवर्षीया जाता । वरप्राप्तेः सम्भावना अपि न दृश्यते स्म । अथ कदाचित् महाराज: कञ्चित् सुप्रसन्नमुखं तरुणं दॄष्टवान्। तस्य शरीरे वस्त्रं न असीत् । भगवत: पुरत: स्थित्वा ध्यायन् सः साक्षात् शम्भु: इव दृश्यते स्म स: तरुणः यदा देवालयात् बहिः आगतवान् तदा महाराजः तं पृष्टवान् -" कुत्र अस्ति भवतः गृहम्?" इति । तरुणः अनुक्षणं -"भगवान् यत् दर्शयति तत् एव मम गृहम्" इति उक्तवान्। महाराजः पुनः _ "भवदीया कापि सम्पत्ति: अस्ति किम्?" इति पृष्टवान् । तरुणः - भवत: कृपा एव मम सम्पत्तिः" इति उत्तरम् उक्तवान्। ततः महाराजः पृष्टवान्-"कथं प्रवर्तन्ते भवतः व्यवहाराः? इति तरुणः -"भगवान् यथा प्रवर्तयति तथा" इति उक्तवान्। तत् श्रुतवतः महाराजस्य महान् आनन्द: सञ्जातः । अन्ततो गत्वा मया यादॄशः इष्टः तादॄशः वरः लब्धः । विरक्तः शिवभक्तश्च अयं तरूणः प्राप्तः खलु! हे भगवन्! अहं धन्यः। भवते सहस्रं वन्दनानि इति कॄतज्ञता भावेन सः देवं नमस्कृतवान् । स्वपुत्र्याः भक्तिवैराग्यादीन् गुणान् वर्णयित्वा तां परिणेतुं तरुणस्य अङ्गीकारं महता कष्टेन एव प्राप्तवान् । ततः महता वैभवेन तेन सह पुत्र्याः विवाहं कारितवान् च । नवोढौ वधूवरौ स्वगृहं प्रति प्रस्थितौ । तौ नगरात् बहिः अरण्यं प्रविष्टवन्तौ । बहूदूरगमन अनन्तरं कस्यचित् पर्वतस्य अधोभागं प्राप्तवन्तौ । तावता मध्याह्नः अतीतः आसीत् । द्वौ अपि कस्यचित् वृक्षस्य अधः उपविष्टवन्तौ। तदा राजकुमारी तस्य वृक्षस्य कोटरे स्थापितं किञ्चित् जलं कञ्चित् रोटिकाखण्डं च दृष्टवती । सा पतिं पृष्टवती - " आर्यपुत्र! भवान् किमर्थं रोटिकां जलं च अत्र स्थापितवान् अस्ति?" इति। तदा युवकः उक्तवान् - अद्य रात्रिभोजनार्थम् आवश्यकं भवेत् इति अहम् एव हि अस्तनभोजने कञ्चित् भागं एवं रक्षितवान्" इति। तस्य श्रवण अनुक्षणं राजकुमार्याः नेत्राभ्याम् अश्रुधारा प्रावहत्। सा उच्चैः रोदनम् एव आरब्धवती। तत् दृष्ट्वा तरुणः उक्तवान् - " अहं जानामि यत् प्रासादे सुखेन प्रवृद्धा कोमलाङ्गी भवती मादृशस्य दरिद्रस्य गृहे जीवितुं न शक्नोति इति" इति । तदा अश्रुधारां मार्जयन्ती राजकुमारी उक्तवती -" प्रिय! निर्धनस्य गृहे जीवितुं न शक्नोमि इति न रोदिमि। मम रोदनस्य कारणम् एतत् अस्ति यत् भगवति भवतः विश्वासः एतावान् न्यूनः जातः खलु इति दुःखम् अभवत्। सुदीर्घस्य कालस्य अनन्तरं प्राप्तः; भगवती अचलविश्वासवान् इति मम पित्रा चितः अपि भवान् परमेश्वरे कथम् एवम् अविश्वासवान् जातः...?इति। पत्न्याः वचनं श्रुतवतः तरुणस्य लज्जा अभवत्। सः पृष्टवान् -" सत्यम्, मया महापराधः कृतः! अस्य प्रायश्चितं किम्?" इति। " प्रायश्चितम् अन्यत् किम् अपि न अस्ति। भवता अहं रक्षणीया, अथवा सा रोटिका रक्षणीया। आवयोः अन्यतरां चिनोतु भवान्" इति । तरुणस्य ज्ञानोदयः अभवत्। सः झटिति तां रोटिकां क्षिप्तवान् राजकुमारी नितरां सन्तुष्टा अभवत्। ॥इति शम् ॥