साक्षात्कारः सेविकायाः चैत्रमासः-२००५ अन्यस्मात् नगरात् स्थानान्तरणं प्राप्य यदा बेङ्गलूरुनगरम् आगतं तदा एव अस्माभिः ज्ञातं यत् अत्र गृहकार्यनिमित्तं कर्मकर्याः प्राप्तिः कियत्क्लेशकरी इति। त्रिमासाभ्यन्तरे चतस्रः कर्मकर्यः अस्माभिः नियुक्ताः निष्कासिताश्च । अस्मदपेक्षानुसारं कार्यकरणं दूरापास्तं ,तासाम् इष्टानिष्टम् अनुसृत्य अस्माभिः व्यवहर्तव्यम् आपतितम् आसीत्। त्रिचतुराणि दिनानि अनुपस्थितं चेदपि, अग्रिधनं याचितं चेदपि वा अस्माभिः आक्षेपः न कर्तव्यः। अन्यच्च तासाम् आगमनसमयः कदापि निश्चितः न भवति स्म विश्वविद्यालयेषु सन्दर्शकाः प्राध्यापकाः इव दिने यदा कदापि आगत्य कार्यं कृत्वा गमनस्य स्वातन्त्र्यम् आसीत् तासाम्। रमा नाम्नी काचित् कर्मकरी आसीत् । कदाचित् विलम्बेन आगतां तां दृष्ट्वा मम पत्नी उक्तवती- " अयि भो: रमे! यदि त्वम् एवं विलम्बसे तर्हि अस्माभिः किं वा करणीयम्? पात्रादीनि किम् अस्माभिः एव प्रक्षालनीयानि? अधुना क्षालितानि चेदपि वस्त्राणि वर्षाकालेऽस्मिन् श्वः प्रातः उपयोगाय कथं शुष्काणि भविष्यन्ति?" इति। तावता कुपिता रमा अनन्तरदिने नागता एव । ततः रमायाः स्थाने उमा आनीता। तस्याः अपि इयमेव कथा। कदाचित् मित्रवरः सुरेशः एतद्विषये मया निवेदितः । झटिति सः अवदत्- "तदर्थं का चिन्ता ? पत्रिकायां विज्ञापिकां ददातु भोः!" इति "किं ,विज्ञापिका इति। किं भवान् चिन्तयति यत् पत्रिकापठित्र्यः विद्यावत्यः एतत् कार्यं कर्तुम् उत्सुकाः भवन्ति इति....?" -अहम् उक्तवान्। मया उक्तम् अनुसरतु। पत्रिकापठनशीला विद्यावती काचित् यदि लभ्येत् तर्हि सा सद्व्यवहारं वा कुर्यात्" सः उवाच। मया विज्ञापिका दत्ता । तां दृष्ट्वा अस्माकम् आवससमीपस्थाः एव तिस्रः आगताः । न जाने तासु प्रथमम् आगतायाः जीवने कीदृशं कष्टम् आसीत् इति । तस्याः मुखे दग्धव्रणकिणाः दृश्यन्ते स्म । तान् दृष्ट्वा एव मम पत्नी रश्मिः" एषा मास्तु" इति उक्तवती। "दर्शनेन जीवने इयं दुःखिता अस्ति इति भाति। एषा यदि स्वीकियेत तर्हि उपकृता भवेत् ननु...?"मया उक्तम्। "मास्तु भोः मास्तु...." पत्नी स्पष्टतया निराकृतवती । द्वितीयायाः तु वेतनविषये या अपेक्षा आसीत् तां पूरयितुम् अस्माकं सामर्थ्यं न आसीत् इत्यतः अहमेव निराकृतवान् । अधुना शिष्टा तॄतीया एका एव ।"उपविशतु" इति मम वचनं श्रुत्वा सा सुखासने सुखेन उपविष्टा। रश्मि: मम मुखं दृष्टवती ’साक्षात्कारस्य आरम्भः भवितुम् अर्हति’ इति मां कथयति इव। "किं तव नाम? कुत्र वासः? प्रतिदिनम् अत्र आगत्य कार्यकरणे क्लेशः नास्ति खलु तव....?" अहं पॄष्टवान्। "मम नाम कलाश्रीः....." रश्मिः हासं निगृह्णती उक्तवती-"सुन्दरमेव नाम चितम् अस्ति तव गृहजनैः...." "इतः नातिदूरे निवसामि। प्रतिदिनं लोकयानेन आगच्छामि। कदाचित् यदि विलम्बः भवेत् तर्हि त्रिचक्रिकया आगच्छामि । तदा तु त्रिचक्रिकाभाटकं भवद्भिः एव दातव्यम्..." कलाश्री अवदत्। " तत् कथं युज्यते ? गृहात् शीघ्रं प्रतिष्ठताम्। समये आगत्य कार्यं समाप्य गच्छतु" -रश्मिः उक्तवती । "वेतनं किम् अपेक्षसे?" मया पृष्टम्। "भवद्भि: दत्तं गृह्यते...." सा उक्तवती । आवयोःविस्मय: जात: ।’कथम् एतत् शक्यम्? अन्ये सर्वे "एतावत् यदि न दीयते तर्हि वार्तालापः एव नास्ति" इति निष्ठुरतया वदन्ति। एवं सति कथम् एषा..." इति विचिन्त्य अहमेव पृष्टवान् -" सत्यम्? अस्माभिः यद् दत्तं तद् अङ्गीकरोषि?" सत्यं, लोकाचारं जानन्ति भवन्तः। अत्यल्पं न यच्छन्ति इति जानामि अहम्। किन्तु..." "किन्तु किम्...?" "भवदपेक्षानुसारं गृहतः शीघ्रमेव प्रस्थानं करोमि। अतः गृहे अल्पाहारं कर्तुं न शक्नोमि। अत्रैव भवद्भिः अल्पाहार: दातव्यः भवति।" रश्मिः मम मुखं दृष्टवती। "अस्तु,अस्माभिः यत् खाद्यते तदेव तुभ्यमपि दीयते..." मया उक्तम्। "वस्त्रप्रक्षालने विलम्बः भवत्येव । अतः मध्याह्नभोजनमपि अत्रैव समाप्य गच्छामि ..।" एषा तु अत्यपेक्षा इति अभासत। तथापि एषा कियत् खादेत् इति बुद्ध्या तदपि अङ्गीकृतम्।"भवद्भि: तण्डुला: आनीयन्ते..?" तस्याः एव प्रश्नः।" अरे,कुतश्चित् वा आनीयते । भवत्याः का चिन्ता सकृत् भोजनं दत्तं चेत् पर्याप्तं खलु..?" रश्मि उवाच।" तत्रैव दोषः क्रियते भवद्भिः । चतुष्पथसमीस्थे आपणे अष्टादशरुप्यकमूल्येन उत्तम: तण्डुलः लभ्यते । ह्यः एव मया ततः आनीय पाकः कृतः । रुचिः अपि उत्तमा अस्ति । मया प्रतिदिनं तादृशः तण्डुलः एव उपयुज्यते एव अभ्यासः मम । भवतां गृहे भोजनेन यदि मम उदरम् अस्वस्थं भवेत् तर्हि भवद्भिः एव अहं चिकित्सालयं नेतव्या । इदानीमेव वदामि..." कलाश्रीः उक्तवती। अस्माभिः एव तादृशमहार्घः तण्डुलः न उपयुज्यते । पुनः अस्याः कृते, तदपि तया सूचितात् एव आपणात् तादृशः तण्डुलः आनेतव्यः...! अहं रश्मेः मुखं दृष्टवान्। स अपि असमाहिता आसीत् । " वर्षे एकदा शाटिका दातव्या इति तु नास्ति मम कृते ..." कलाश्रीः उक्तवती। "भवतु नाम। तावत् वा धनं सञ्चितं भवतु" इत चिन्तयन् अहं रश्मेः मुखं दृष्टवान्। "अस्तु" इति झटिति अङ्गीकृतवती रश्मिः। कलाश्रीः अनुवर्तितवती- " किन्तु..." "किन्तु....." रश्मिः असहनया अपृच्छत्। " वर्षे एकदा एव युग्मत्रयं चूडिदारवस्त्रं यच्छन्तु। तदपि न मह्यम् । अपि तु मम पुत्र्यै । सा महाविद्यालये पठति । अतः कीदृशं वस्त्रं दातव्यं इति मया पुनर्वक्तव्यं नास्ति खलु...?" श्रान्तौ आवां परस्परं मुखं दृष्टवन्तौ । "काफीचूर्णं कुत: आनीयते भवद्भिः...? "इण्डियन् काफीडिपोतः...." "अहो! ततः किमर्थम् आनीयते ? तत् सर्वथा उत्तमं न भवति। मयापि मासं यावत् तदेव उपयुक्तम्। अधुना तु "चम्पकधाम"-काफी आनीयते । तद् उत्तमं भवति तत्सेवनेन मम स्वास्थ्येऽपि प्रगतिः अस्ति।" तस्याः कथनं श्रुत्वा आवां मूकौ जातौ " क्षीरस्य दध्नः च का व्यवस्था भवताम्?"समीपस्थात् आपणात् आनयामः रश्मिः उक्तवती। ततः न आनयन्तु । मम गृहसमीपस्थात् "गोवर्धनडैरीतः" अहमेव आनयामि । आनयनाय मह्यं पञ्चविंशति रुप्यकाणि यच्छन्तु। तत्रत्यं दुग्धम् अमृतसदृशं भवति। आतञ्चनं यदि क्रियते अद्भुतं दधि सिध्यति । तन्मथनेन प्रतिदिनं जम्भीरपरिमाणकं नवनीतं लभ्यते। भवन्त: आपणघृतस्य उपयोगेन अस्वस्थाः मा भवन्तु। अहमेव प्रतिदिनम् आगत्य दधिमथनं कृत्वा नवनीतं निष्पादयामि । तदर्थं पृथक वेतनं दातव्यं नास्ति। भोजनसमये मह्यमपि किञ्चित् नवनीतं घृतं वा यच्छन्तु। तावदेव ...." आवयोः श्वास रुद्धः एव। पुन: कलाश्रीः एव उक्तवती -"फलानि शाकानि च मम परिचितात् आपणात् अहमेव आनाययिष्यामि । कथमपि शीतकम् अस्ति खपु अत्र...। किमर्थम् एतत् उच्यते इत्युक्ते शाकरहितः सारः मह्यं न रोचते । अन्यच्च भोजनोत्तरं फलभक्षणं ममापि अभ्यासः...।" आवाभ्यां वक्तव्यं किमपि नावशिष्टम्। अन्ते पुनरपि सा उक्तवती -" दूरदर्शने चलच्चित्रवीक्षणे मया जामिता अनुभूयते। मासे एकवारं द्विवारं वा चित्रमन्दिरं गच्छाम...।" आवां नितरां श्रान्तौ आस्व। तथापि अहं कथमपि उक्तवान्-"भवतु,वयं विचिन्त्य निर्णयं सूचयिष्यामः। भवती कथम् सूचनीया?" " गृह्णन्तु मम सङ्केतपत्रम्" इति वदन्ती सा स्वस्य विजिटिङ्गकार्डपत्रम् दत्तवती। अत्र दूरभाषासंख्यापि अस्ति। दूरभाषया सूचयन्तु । आगच्छामि " इति उक्त्वा गतवतीं कलाश्रियमेव पश्यन्तौ आवाम् उपविष्टवन्तौ। ॥इति शम्॥