सा योग्यता चैत्रमासः-२००५ महर्षिः याज्ञवल्क्यः स्वस्य आश्रमे प्रतिदिनं धर्म उपदेशं करोति स्म । उपदेशं श्रोतुं बहवः जनाः आगच्छन्ति स्म। मिथिलायाः अधिपतिः जनकमहाराजः अपि आगच्छति स्म। वस्तुतः प्रतिदिनं जनकमहाराजस्य आगमनात् पूर्वम् एव बहवः ॠषयः तत्र आगत्य उपविशन्ति स्म । किन्तु याज्ञवल्क्यः तदा एव उपदेशस्य आरम्भं करोति, यदा जनकमहाराजः आगत्य उपविशति । कदाचित् ऋषयः परस्परं वार्तालापं कृतवन्तः-" जनकमहाराजे अस्मासु अविद्यमाना तादृशी का योग्यता अस्ति यत् महर्षिः याज्ञवल्क्यः तस्य विषये तादृशं गौरवभावं वहति ?" इति । ऋषीणां वार्तालापः याज्ञवल्क्येन ज्ञातः। सः तेषां बोधनाय एकम् उपायं चिन्तितवान्। एकस्मिन् दिने याज्ञवल्क्यः यथापूर्वम् उपदेशवाचनं कुर्वन् आसीत् । जनकमहाराजः अन्ये ऋषयः च श्रद्धया श्रृण्वन्तः आसन्। तदा एव कश्चन वटुः धावन् तत्र आगतवान् । ॠषीन् उक्तवान् च-"भोः भोः ऋषयः भवतां कुटीराणि अग्निना ज्वलन्ति सन्ति" इति । परन्तु तद् श्रुत्वा अपि याज्ञवल्क्यः उपदेशं तथा एव अनुवर्तितवान् । तदा सर्वे अपि ॠषयः झटिति उत्थाय तत्र धावितवन्तः । ज्वलतः कुटीरात् स्वीयानि दण्ड-कमण्डलु-मृगचर्मादीनि वस्तूनि आनीतवन्तः च। इतो अपि उपदेशः अनुवर्तमानः एव आसीत् । जनक-महाराजः निश्चलम् उपविश्य श्रृण्वन् आसीत्। किञ्चितकाल अनन्तरम् अन्यः कश्चन तत्र आगत्य उक्तवान् - " प्रभो! जनकमहाराज! मिथिलानगरे अग्निस्पर्शः जातः अस्ति । महान् अनर्थः सम्भवति" इति । परन्तु तद् श्रुत्वा अपि जनकमहाराजः किञ्चिद् अपि विचलितः न अभवत् । सः यथापूर्वम् उपदेशं श्रृण्वन् एव आसीत् । ततः किञ्चित् काल अनन्तरम् अपरः आगत्य उक्तवान्- " महाराज! अधुना तु राजभवनम् अपि अग्निना ज्वलति। भवतः अन्तःपुरम् अपि दह्यमानम् अस्ति" इति। अधुना अपि जनकमहाराजः अविचलितः सन् उपदेशश्रवणे एव निरतः आसीत् । तत् पश्चात् याज्ञवल्क्यः उपदेशं समापितवान् । ततः अन्यान् ऋषीन् उक्तवान् च -" भोः ऋषयः! कुटीरं ज्वलति इति वार्तां श्रृत्वा विरक्ताः अपि भवन्तः तत्र धावित्वा स्वीयानि वस्तूनि आनीतवन्तः । परन्तु जनकमहाराजः स्वस्य नगरं , भवनम् अन्तःपुरं च ज्वलति इति वार्तां श्रुत्वा अपि किञ्चित् अपि विचलितः न अभवत् । भवतां तस्य च एतावान् एव भेदः । अतः एव अहं तस्य आगमन अनन्तरम् एव उपदेशस्य आरम्भं करोमि" इति । सर्वे ऋषयः लज्जया नतमस्तकाः अभवन् । ॥इति शम्॥