संस्कृत भारती भाग ४ ******************************** मूर्खः शशकः ******************************** एकस्मिन वने एकः शशकः आसीत् । एकदा सः वृक्षस्य छायायां शयितः आसीत् । वृक्षात् एकं फलं तस्य मस्तके अपतत् । शशकस्य निद्रा भग्नाभवत् । सः अचिन्तयत् - "आकाशः अपतत् ।" भयात् कातरः सः आत्मरक्षणाय अधावत् । मार्गे एकः वानरः तमपश्यत् । वानरः तम् अपृच्छत् - "मित्र ! कथं त्वं धावसि ?" शशकः अवदत्- "आकाशः पतति, अतः अहं धावामि ।" भयात् कातरः वानरोऽपि अधावत् । एवं वानरं दृष्ट्वा मृगः , मृगं दृष्ट्वा गजः, इत्येवं क्रमेण अन्ये पशवोऽपि अधावन् । मार्गे एकः श्रृगालः आगच्छति स्म । सः गजं पृष्टवान् -"भवान् कथं धावति ?" गजः मृगम्, मृगः वानरम्, इत्येवं क्रमेण अन्ते शशकं सर्वे पृष्ट्वन्तः । सोऽवदत्-"आकाशः पतति ।" श्रृगालः तं पृष्टवान्-"कुत्र आकाशः पतति?" शशकः तान् सर्वान् तत्रानयत् यत्र सः शयितः आसीत् । तत्र पतितं फलं सर्वे अपश्यन् । श्रृगालः तं शशकम् अवदत्-"अरे मूर्ख! एतत् फलमेव वृक्षात् अपतत् न तु आकाशः ।" सर्वे पशवः अहसन् । शशकः लज्जितः अभवत् ।