दैवचित्तस्य गतिः अनूह्या आषाढमासः-२००५ कृष्णचन्द्रः नाम कश्चित् आसीत्। सः रुपवान् महाधनिकः च । दैवेन तस्मै सर्वं दत्तम् आसीत्। सुन्दरी गुणवती च भार्या, उत्तमः सन्तानः,प्रियतमाः बान्धवाः,गुणवन्तः सुहृदः च तस्य आसन्। तथापि तस्य पूर्णा सन्तुष्टिः न आसीत्। "मम पार्श्वे सर्वम् अस्ति । अतः भाग्यवान् अस्मि एव । परन्तु किम् एतानि सर्वाणि निरन्तरं मम एव भविष्यन्ति ? यदि कदाचित् मम भाग्यं क्षीणं भविष्यति तर्हि कथम् अहं जीवेयम्? अपि च ,आगामिनि जन्मनि अपि इदम् एव गृहं, क्षेत्रं,कुटुम्बं,भार्या,पुत्राः च किं मम भवेयुः? एतस्याः समस्यायाः परिहारः कः? इति विचारः तम् अहोरात्रं बाधते स्म। यत् यं वा सः पश्यति तस्य विषये चिन्तयति-’एतद एषः वा सर्वदा किं मम एव भविष्यति?’ इति । एतेन भोजने तस्य रुचिः विनष्टा। निद्रा अपि दूरं गता। एकस्मिन् दिने चित्तशान्ति अर्थं सः मन्दिरं गतवान् । तत्र प्रवचनकर्ता कश्चित् प्रवचनं कुर्वन् आसीत् । सः अवदत्- " भूलोके सर्वम् अनित्यम् देवाः अमृतस्य सेवनात् चिरञ्जीविनः नित्यसुखिनः च भवन्ति" इति। इदं वचनं कृष्णचन्द्रस्य श्रोत्रयोः पतितम्। तस्य मनसि उपायः कश्चन उत्पन्नः। "यदि अहं मत् कुटुम्बजनाः च अमृतं सेवेमहि तर्हि वयम् अपि नित्यसुखिन: भवितुं शक्नुयाम् खलु"? इति अतः सः निर्णीतवान् यत् मया इन्द्रदर्शनार्थं तप: करणीयम् इति। अनन्तरदिने एव सः समीपस्थं वनं गतवान् । वने कुत्रचित् स्थित्वा सर्वाणि सुखानि त्यक्त्वा कठोरे तपसि मग्नः अभवत्। एतेन सन्तुष्टः देवेन्द्रः कृष्णचन्द्रस्य पुरतः प्रत्यक्षः अभवत्। अमृतपूर्णं घटम् एकं तस्मै दत्त्वा सः -" हे कृष्णचन्द्र ! भवन्तः आतृप्ति अमृतं पातुम् अर्हन्ति । परन्तु एकः नियमः स्मर्तव्यः यत् एषः घटः अधः न स्थापनीयः" इति उक्त्वा अन्तर्हितः जातः। यदा वनस्य मध्यभागः अतीतः तदा कृष्णचन्द्रेण शौचशङ्का प्राप्ता । तडागः कश्चन तेन समीपे दृष्टः। "अमृतघटं किं करोमि?" इति चिन्तयन् एव सः परितः दृष्टिं प्रसारितवान् । तावता दरिद्रः जनः कश्चन तत्र आगतवान् । कृष्णचन्द्रः कुयुक्तिं चिन्तयन् तस्य समीपं गत्वा- " एषः विषपूर्णः घटः । अधः न स्थापनीयः एषः। अतः यावत् अहम् एतस्मिन् तडागे स्नान आदिकं कृत्वा प्रति आगमिष्यामि तावत् भवता हस्तेन एव घटं गृहीत्वा अत्र एव स्थातव्यम्" इति उक्त्वा घटं तस्य हस्ते स्थापयित्वा तडागं गतवान्। आगतः मनुष्यः तु अतिदरिद्रः उद्योगः को अपि न आसीत् तस्य । केभ्यश्चित् दिनेभ्यः उदरवेदना अपि तं बहुधा पीडयति स्म । वैद्यं द्रष्टुम्, औषधं क्रेतुं वा तस्य समीपे धनम् अपि न आसीत् । जीवने विरक्तिं प्राप्तवान् सः ’लोके मादृशस्य जीवनम् असाध्यम्। मम मरणम् एव उचितम्’ इति निश्चित्य विषपदार्थस्य अन्वेषणार्थम् एव वनं प्रविष्टवान् आसीत् । अकस्मात् कृष्णचन्द्रेण दत्तः "विषघटः" अमृतघटःइव तस्मै प्रतीयत । सः झटिति घटम् उद्घाटय "विषं" पीतवान्। तेन कीदृशं फलं प्राप्तं इति पुनः वक्तव्यं न अस्ति खलु? ॥इति शम्॥