Sutra: | तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्धया हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं न ह्यन्तरेणलोके त्रयमेतन्मानसं किंचिन्निष्पद्यते सुखं वा तस्मादेतच्चानुष्ठेयं--तद्विद्यानां चोपसेवने प्रयतितव्यम् आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति॥ |