Sutra: | अत्रातिस्थूलकृशयोर्भूय एवापरे निन्दतविशेषा भवन्ति अतिस्थूलस्य तावदायुषो ह्रासो ज्वोपरोधपरोध: कृच्छ्रव्यावायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाध: क्षुदतिमात्रं पिपासातियोगश्चेति भवनन्त्यष्टौ दोषा: तदतिस्थौल्यमतिसंपूरणाद्गुरुमधुरस्निग्धोपयोगादव्यायामादव्यवायाद्दिवास्वप्नाद्धर्षनित्यत्वादचिन्तनाद्विजस्वभावाचोपजायते तस्य ह्यातिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरेधातव: तस्मादस्यायुषो ह्रास ळ् शैथिल्यात् सौकुमार्याद्गुरुत्वाच्चमेदसो जवोपरोध:शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता हौर्बल्यमसमत्वाद्धातूनां दौर्गन्ध्यं मेदोदोषान्मेदस: स्वभावात् स्वेदनत्वाच्च मेदस: श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बुत्वाद्गुरुत्वायायामासहत्वाच्च स्वेदाबाध: तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति |