Sutra: | त्रयो रोगमार्गा इति--शाखा मर्मास्थिसन्धय: कोष्टश्च तत्र शाखा रक्तादयो धातवस्त्वक् च स बाह्यो रोगमार्ग: मर्माणि पुनर्बस्तिहृदयमूर्धादीनि अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्न्नायुकणडरा: स मध्यमो रोगमार्ग: कोष्ठ: पुनरुच्यते महास्त्रोत: शरीरमध्यं महानिम्निमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे स रोगमार्ग आभ्यन्तर:॥ |