Index Search for 'ज्ञेयः' |
Sutra: | तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति तद्यथा अप्रवृतिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागोज्ञेयः योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्-आध्मानम् परिकर्तिका परिस्त्रावो हृदयोपसरणमङ्ग्प्रहो जीवादानं विभ्रंशः स्तम्भः श्लमश्चेत्यपद्रवाः । |
Reference: | 1.14.13.0(सूत्रस्थान>स्वेदाध्याय>सूत्र#13.0) |
Sthana: | सूत्रस्थान |
Adhyaya: | स्वेदाध्याय |
Search other sources: | search this word on other online resources
|