Index Search for 'ज्ञातीनां' |
Sutra: | अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्तिवाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यक् विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रकृतिलाभात् बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरः स्नातमनुलिप्तगात्रं स्त्रग्विण्मनुपहतवस्त्रसंवीतमनुरुपालङ्कारालङ्कृतं सुहृदां दर्शयित्वाज्ञातीनां दर्शयेत् अथैनं कामेष्ववसृजेत् । |
Reference: | 1.14.17.0(सूत्रस्थान>स्वेदाध्याय>सूत्र#17.0) |
Sthana: | सूत्रस्थान |
Adhyaya: | स्वेदाध्याय |
Search other sources: | search this word on other online resources
|