Sutra: | तच्छुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच--सर्व एव भवन्त: सम्यगाहुरन्यत्रैकान्तिकवचनात् सर्व एवखलु वातपित्तश्लेष्माण: प्रकृतिभूता: पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव नि:श्रेयसेन महता पुरुषमिह चमुष्मिंश्च लोके विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति॥ |