Sutra: | तच्छुत्वा वाक्यं बडिशो धामार्गव उवाच-- एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपप्रशमनानि भवन्ति यथा ह्येनमसङ्घतमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा तथाऽनुव्याख्यास्याम:--वातप्रकोपणानिखलु रूक्षलुशीतदारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमान: प्रकोपमापद्यते वातप्रशमनानि पुन: स्त्रिग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते।।॥ |