Sutra: | तेषां त्रायाणामपि दोषाणां शरीरे स्थानविभाग उपदेक्ष्यते तद्यथा -- बस्ति: पुरीषाधानं कटि: सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि तत्रापि पक्वाशयो विशेषेण घातस्थानं स्वेदो रसो लसीका रुधिर्रमामाशयश्च पित्तस्थानानि तत्राप्यामाशयो विशेषेण पित्तस्थानम्उर: शिरो ग्रीवा पर्वाणयामाशयो मेदश्च श्लेष्मस्थानानि तत्राप्युरो विशेषेण श्लेष्मस्थानम् |