Sutra: | इदं च नः प्रत्यक्षं -- यदनातुरेण भेषजेनातुरं चिकित्सामः क्षाममक्षामेण कृशं च दुर्बलमाप्याययामःस्थूलं मेदस्विनमपतर्पयामः शीतेनोष्णाभिभूतमुपचरामः शीताभिभूतमुष्णेन न्यूनान् धातून् पूरयाम्ः व्यतिरिक्तान् ह्रासयामः व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति । |