Sutra: | एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्गनसे कर्मणयक्लिष्टे देहेन्द्रियमनोर्थबुद्धयात्मपरीक्षायां मन:समाधाविति यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तृ तथाइति तृतीया प्रलोकणा व्याख्याता भवति॥ |