Sutra: | नेति मैतेयः किं कारणं दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ताश्चापरे म्रियमाणाः तस्माद्भेषजमकिंचित्करं भवति तद्यथा श्वेभ्रे सरसि च प्रसिक्तमल्पमुदकं नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्णइति तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ता म्रियमाणाश्चापरे यतश्च प्रतिकुर्वन् सिध्यति प्रतिकुर्वन् म्रियते अप्रतिकुर्वन् सिध्यति अप्रतिकुर्वन् म्रियते ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति । |