Sutra: | द्वौ ज्वाराविति उष्णाभिप्राय: शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थ: द्वौ व्रणाविति निजश्चागन्तुजश्च द्वावायामाविति बाह्यश्चाभ्यन्तरश्च द्वे गृध्रस्याविति वाताद्वातकफाच्च द्वे कामले इति कोष्ठाश्रया शाखाश्रया च द्विविधमाममितिअलसको विसूचिका च द्विविधं वातरक्तमिति गम्भीरमुतानं च द्विविधान्यर्शासीति शुष्काणयार्द्राणि च |