Index Search for 'अप्रतिकुर्वन्' |
Sutra: | नेति मैतेयः किं कारणं दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ताश्चापरे म्रियमाणाः तस्माद्भेषजमकिंचित्करं भवति तद्यथा श्वेभ्रे सरसि च प्रसिक्तमल्पमुदकं नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः तथायुक्ता म्रियमाणाश्चापरे यतश्च प्रतिकुर्वन् सिध्यति प्रतिकुर्वन् म्रियतेअप्रतिकुर्वन् सिध्यतिअप्रतिकुर्वन् म्रियते ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति । |
Reference: | 1.9.4.0(सूत्रस्थान>खुड्डाकचतुष्पादाध्याय>सूत्र#4.0) |
Sthana: | सूत्रस्थान |
Adhyaya: | खुड्डाकचतुष्पादाध्याय |
Search other sources: | search this word on other online resources
|